________________
Jain Education Inte
|इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र न पौनरुक्त्यं, तत्प्रतीच्छन्तु - गृह्णन्तु देवानुप्रिया ! मम इदम्-अग्रत | उपनीतं एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपं प्रीतिदानं - सन्तोषदानं प्राभृतरूपमित्यर्थः, इतिकृत्वा - विज्ञप्य हारादिकमुपनयति - प्राभृतीकरोतीति, 'तए ण'मित्यादि, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपं प्रीतिदानं तत्प्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छतिगृह्णाति, प्रतीष्य च मागधतीर्थकुमारं देवं सत्कारयति वस्त्रादिना सन्मानयति तदुचितप्रतिपत्त्या सत्कार्य सन्मान्य च प्रतिविसर्जयति - स्वस्थानगमनायानुमन्यते । अथ तदुत्तरकर्त्तव्यमाह'तए णं से भरहे राया रह 'मित्यादि, ततः स भरतो राजा रथं परावर्त्तयति - भरतवर्षाभिमुखं करोति, परावर्त्य च मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च - बाह्या उपस्थानशाला तत्रैवोपागच्छति उपागत्य च तुरगान् निगृह्णाति निगृह्य च रथं स्थापयति स्थापयित्वा च रथात् प्रत्यवरोहति प्रत्यवरुह्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुप्रविशति अनुप्रविश्य 'जाव'ति यावत्करणात् | संपूर्णः स्नानालापको वाच्यः 'ससिव पिअदंसणे' इति विशेषणं यावत्, स च प्राग्वत्, नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव भोजन मण्डपस्तत्रैवोपागच्छति उपागत्य च भोजनमण्डपे सुखासनवरगतः सन्नष्टमभक्तं पारयति | पारयित्वा च भोजनमण्डपात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवो| पागच्छति उपागत्य च यावत्सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषय व अष्टादश श्रेणिप्रश्रेणीः शब्दयति शब्द
For Private & Personal Use Only
www.jainelibrary.org