SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ द्वीपा जम्बूद्वीपादारभ्य द्विगुणविष्कम्भायामपरिधयः, ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, दीर्घत्वं प्राकृतत्वात्, अनेन सामान्यतः प्रमाणमभिहितं, विशेषतस्त्वायामादिगतं प्रमाणमये वक्ष्यति, अत्र विशेषप्रमाणमवसरप्राप्तमपि यन्नोकं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति, तथा वृत्तः, स च शुषिरवृत्तोऽपि स्याद् अत आह-'तैलापूपसंस्थानसंस्थितः' तैलेन पक्कोऽपूपस्तैलापूपः, तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः, अत्र तैलादित्वाल्लकारस्य द्वित्वं, तथा वृत्तो रथचक्रवालसंस्थानसंस्थितः, रथस्य-अवयवे 1 समुदायोपचारात् रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येव संस्थानेन संस्थितः, अथवा चक्रवालं-मण्डलं मण्डलत्व धर्मयोगाच्च रथचक्रमपि रथचक्रवालं शेषं प्राग्वत् , एवं वृत्तः 'पुष्करकर्णिकासंस्थानसंस्थितः' पुष्करकर्णिका-पद्मवी-18 |जकोशः कमलमध्यभाग इतियावत्, वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः प्राग्वत् पदद्वयं भावनीयं, एकेनैव चरितार्थकत्वेऽपि नानादेशजविनेयानां क्षयोपशमवैचित्र्यात् कस्यचित् किञ्चिद्बोधकमित्युपमापदनानात्वं, अत एव प्रत्युपमापदं योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्काऽपि, एतेन संस्थानमुक्तं ३ । अथ सामान्यतः प्रागुक्तं प्रमाणं विशेषतो निर्वक्तुमाह-एकं योजनशतसहस्र, प्रमाणाङ्गलनिष्पन्नं योजनलक्षमित्यर्थः 'आयामविष्कम्भेन' अत्र च समाहारद्वन्द्व| स्तेन क्लीवे एकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः, अत्राह परः-जम्बूद्वीपस्य योजनलक्षं प्रमाणमुक्तं तच्च पूर्वपपश्चिमयोर्जगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विंशत्यधिकं भवति, तथा(च) यथो मानं विरुद्ध्यत इति, For Private Personel Use Only Narainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy