SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ १८ ॥ Jain Education Int स्य - संसारस्य भयस्य वा - भीतेरन्तहेतुत्वात् भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! भयान्त ! वां प्राग्वर्णितास्वर्थको जम्बूद्वीपो नाम द्वीपो वर्त्तत इति शेषः, अनेन जम्बूद्वीपस्य स्थानं पृष्टं १, तथा भदन्त ! किंप्रमाणो महा| नालयः- आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा कियत्प्रमाणमस्य महत्त्वमित्यर्थः, एतेन प्रमाणं पृष्टं २, अथ भदन्त ! किं संस्थानं यस्य स तथा एतेन संस्थानं पृष्टं ३, तथा भदन्त ! आकारभावः-स्वरूपविशेषः कस्याकार भावस्य प्रत्यवतारो यस्य स किमाकारभावप्रत्यवतारः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, यद्वा आकारश्च - स्वरूपं भावाश्च -जगतीवर्षवर्षधराद्यास्तद्गतपदार्था आकारभावास्तेषां प्रत्यवतारः - अवतरणं आविर्भाव इतियावत् आकारभावप्रत्यवतारः क:-कीदृग् आकारभावप्रत्यवतारो यस्मिन् स तथा अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः ४, इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचः श्रवणसोत्साहताकरणार्थं जगत्प्रसिद्ध गोत्राभिधानेन तमामन्त्रय निर्वचनचतुष्टयीं भगवानाह - गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हे गौतम! 'अयं' यत्र वयं वसामः, अनेन समयक्षेत्र बहिर्वर्त्तिनामसङ्ख्यानां जम्बूद्वीपानां व्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः, कथम्भूत इत्याह- 'सर्वद्वीपानां धातकीखण्डादीनां 'सर्वसमुद्राणां लवणोदादीनां सर्वात्मना - सामस्त्येन अभ्यन्तरः सकल तिर्यग्लोकमध्यवर्त्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कप्र| त्ययः, अभ्यन्तरमात्रं धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादानमिति, अनेन जम्बूद्वीपस्यावस्थानमुक्तं १, तथा सर्वेभ्योऽपि - शेषद्वीपसमुद्रेभ्यः क्षुल्लको - लघुः, तथाहि - सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च For Private & Personal Use Only १ वक्षस्कारे जम्बूद्वीपस्थानादिः ॥ १८ ॥ ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy