SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ अध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इत्यर्थः, सङ्कल्पश्च द्विधा-ध्यानात्मकः चिन्तात्मकश्च, तत्र आद्यः स्थिराध्यवसायलक्षणस्तथाविधदृढसंहननादिगुणोपेतानां द्वितीयश्चलाध्यवसायलक्षणस्तदितरेषामिति, तयोर्मध्येऽयं चिन्तितःचिन्तारूपश्चेतसोऽनवस्थितत्वात् , स चानभिलाषात्मकोऽपि स्यादित्यत आह-प्रार्थितः-प्रार्थनाविषयः, अयं मम मनोरथः फलेग्रहिर्भूयादित्यभिलाषात्मक इत्यर्थः, मनोगतो-मनस्येव यो गतो न बहिर्वचनेन प्रकाशित इति, सङ्कल्पः | समुदपद्यत, तमेवाह-उत्पन्नः खलु:-निश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव, तेनेह मागधकुमारेति योज्यं, जम्बूद्वीपे द्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तत्-तस्माजीतमेतत् अतीतप्रत्युत्पन्नानागतानां 'मागधतीर्थकुमाराणा'मिति मागधतीर्थस्थाधिपतिः कुमारो मागधतीर्थकुमारः मध्यपदलोपेन समासः, कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वात् , तन्नामकानां देवानां राज्ञां-नरदेवानां उपस्थानिक-माभृतं कत्तुं॥ तद् गच्छामि णमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इतिकृत्वा-इति मनसिकृत्य एवं-वक्ष्यमाणं निजर्द्धिसारं संप्रेक्षते-पर्यालोचयति, ततः किं करोतीत्याह-संपेहेत्ता' इत्यादि, सम्प्रेक्ष्य च हारादीनि प्रतीतानि चकारः सर्वत्र समुच्चये शरं च भरतस्य प्रत्यर्पणाय नामाहतं नामाहताङ्कमिति निर्देशे कर्तव्ये लाघवार्थमित्थमुपन्यासः यद्वा नाम आहतं-लक्षणया लिखितं यत्र स तथा तं मागधतीर्थोदकं च राज्याभिषेकोपयोगि एतानि गृहातीति सम्बन्धः, तदनन्तरं किं विदधे इत्याह-'गिण्हिता ताएं उकिटाए'इत्यादि, गृहीत्वा च तया दिव्यया देव Jain Education a l For Private Personal Use Only Sonww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy