________________
Recene
वस्त्रबन्धविशेषेणेत्यर्थः, निगडितं-सुबद्धं मध्यं यस्य स तथा, वातेन-प्रस्तावात् समुद्रवातेनोद्भूतं-उत्क्षिप्तं शोभमानं कौशेयं-वस्त्रविशेषो यस्य स तथा, चित्रेण धनुर्वरेण शोभते स भरत इत्यध्याहारः, इन्द्र इव प्रत्यक्षं-साक्षात्तत्प्रागुक्तस्वरूपं महाचापं चञ्चलायमानं-सौदामिनीयमानं कान्तिझात्कारणेत्यर्थः, आरोपितगुणत्वेन पञ्चमीचन्द्रोपमं 'छज्जइत्ति | राजते 'राजेरग्घछजसहरीहरहा'इति ( श्रीसिद्ध०८-४-१००) प्राकृतसूत्रेण रूपसिद्धिः, वामहस्ते नरपतेरिति, तस्मिन् विजये-मागधतीर्थेशसाधने इति । 'तए ण'इत्यादि, ततः स शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योज|नानि गत्वा मागधतीर्थाधिपतेर्देवस्य भवने निपतितः, ततः किं वृत्तमित्याह-'तए ण'मित्यादि, ततः स मागधपतिदेवो भवने अर्थात् स्वकीये शरं निपतितं पश्यति दृष्ट्वा च आशु-शीघ्रं रुप्त:-क्रोधोदयाद्विमूढः, 'रुप लुप च विमोहने'
इति वचनात् , स्फुरितकोपलिङ्गो वा, रुष्ट:-उदितक्रोधः चाण्डिक्यितः-सञ्जातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, 18| कुपितः-प्रवृद्धकोपोदयः, 'मिसिमिसेमाणे ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपाद
नार्थमुक्ताः, त्रिवलिकां-तिस्रो वलय:-प्रकोपोत्थललाटरेखारूपा यस्यां सा तथा ता भृकुटिं-कोपविकृतभ्रूरूपां संह
रति-निवेशयति, संहृत्य च एवमवादीत्, किमवादीदित्याह-केस ण'मित्यादि, केसत्ति-कः अज्ञातकुलशीलसहज-18 २ त्वादनिर्दिष्टनामकः सकारः प्राकृतशैलीभवः 'मणसा वयसा कायसा' इत्यादिवत् णमिति प्राग्वत् भो इति सम्बो
धने देवानां एषः-बाणप्रयोक्ता अप्रार्थितं-केनाप्यमनोरथगोचरीकृतं प्रस्तावात् मरणं तस्य प्रार्थको-अभिलाषी, अय-र
JainEducation
For Private Persone Use Only
miww.jainelibrary.org