________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२०१॥
Jain Education Int
भूयोऽपि किं कृत्वेत्याह- इषुमुदारं-उद्भटं आयतं - प्रयत्नवद् यथा भवत्येवं कर्णं यावदायतं - आकृष्टं कृत्वा इमानि वचनान्यभाणीदिति, अन्वययोजनं तु पूर्वमेव कृतं, कानि तानि वचनानीत्याह -- हंदि इति सत्ये, तेन यथाशयं वदामी| त्यर्थः, अथवा हंदीति सम्बोधने, शृण्वन्तु भवन्तः, शरस्य - मत्प्रयुक्तस्य बहिस्तात्-त्वग्भागे ये देवा अधिष्ठायका| स्त्वग्दार्थ्यादिकारिणस्ते इत्यर्थः, खलु वाक्यालङ्कारे, ते के इत्याह- नागा असुराः सुपर्णा - गरुडकुमाराः तेभ्यः खुः -निश्चये नमोऽस्तु विभक्तिपरिणामात् तान् प्रणिपतामि- नमस्करोमि, नम इत्यनेन गतार्थत्वेऽपि प्रणिपतामीति पुनर्व| चनं भक्त्यतिशयख्यापनार्थं, अनेन शरप्रयोगाय साहाय्यकर्तॄणां वहिर्भागवासिनां देवानां सम्बोधनमुक्तं, अथाभ्य| न्तरभागवर्त्तिदेवानां सम्बोधनायाह-हन्दीति प्राग्वत्, नवरं अभ्यन्तरतो गर्भभागे शरस्य येऽधिष्ठायकास्तद्दार्थ्यादि| कारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्यर्थः सर्वे ते देवा मम विषयवासिनो - मम देशवासिन इत्यर्थः, सूत्रे चैकवचनं प्राकृतत्वात् इदं च वचनं सर्वे एते देवा मदाज्ञावशंवदत्वेन मदिष्टस्य शरप्रयोगस्य साहायकं करिष्यन्तीत्याशयेनेति, यथाऽत्रादिचरित्रादौ शरस्य पुंखमुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थं, | नंनु यद्येते देवा आज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपन्नं, उच्यते, क्षत्रियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् चक्ररलस्येव तेन तदधिष्ठातृणामपि स्वाभिमतकृत्यसाधकत्वेन नमस्कार्यत्वं नानुपपन्नमिति, इतिकृत्वा - निवेद्य इ निस्सृजति - मुञ्चति । अथ भरतस्यैतत्प्रस्ताववर्णनाय पद्यद्वयमाह — 'परिगर 'त्ति परिकरेण-मलकच्छबन्धेन युद्धोचित -
For Private & Personal Use Only
श्वक्षस्कारे मागधतीकुमारसाधनं सू.
४५
॥२०१॥
www.jainelibrary.org