________________
धकेशाः चामरवाला:-चमरपुग्छकेशाः, एषां चोक्तगिरिद्वयसत्कानामतिसुन्दरत्वेमोपादानं, अर्द्धचन्द्राश्च-खण्डचन्द्रप्रतिबिम्बानि चित्ररूपाणि एतादृशानि चिन्हानि यत्र तत्तथा, यस्य धनुषि सिंहकेसराः बध्यन्ते स महान् शूर इति शौर्यातिशयख्यापनार्थ, चमरवालबन्धनं अर्द्धचन्द्रप्रतिबिम्बरूपं च शोभातिशयार्थमिति, कालादिवर्णा याः 'पहारुणिति स्नायवः शरीरान्तर्वर्धास्ताभिः सम्पिनद्धा-बद्धा जीवा-प्रत्यञ्चा यस्य तत्तथा, जीवितान्तकरणं शत्रूणामिति गम्यं, ईदृशधनुर्मुक्तो बाणोऽवश्य रिपुजयीत्यर्थः, चलजीवमिति विशेषणं त्वेतवर्णकवृत्तौ षष्ठाङ्गे श्रीअभयदेव
सूरिभिर्न व्याख्यातमिति न व्याख्यायते, यदि च भूयस्सु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु दृश्यमानत्वाद् व्याख्यातं विलोशक्यते तदा टण्कारकरणक्षणे चला-चञ्चला जीवा यस्य तत्तथा, पुनः किंकृत्वेत्याह-'उसुंच'त्ति इषु च गृहीत्या, तमेव विशिनष्टि-वरषजमय्यौ कोव्यौ-उभयप्रान्तौ यस्य स तथा, बहुव्रीहिलक्षणः कप्रत्ययः, वरवज्रवत् सारं-अभेद्यत्वेनाभङ्गुरं तुण्डं-मुखविभागो भल्लीरूपो यस्य स तथा तं, काञ्चनबद्धा मणयः-चन्द्रकान्ताद्या कनकबद्धानि रत्नानिकर्केतनादीनि प्रदेशविशेषे यस्य स धौत इव धौतो निर्मलत्वात् इष्टो-धानुष्काणामभिमतः सुकृतो-निपुणशिल्पिना निर्मितः पुंख:-पृष्ठभागो यस्य स तथा तं, अनेकर्मणिरलैर्विविध-नानाप्रकारं सुविरचितं नामचिन्ह-निजनामवर्णपतिरूपं यत्र स तथा तं, पुनरपि किं कृत्वेत्याह-वैशाख-वैशाखनामक स्थान-पादन्यासविशेषरूपं स्थित्वा-कृत्वा, वैशाखस्थानकं चैवं-'पादौ सविस्तरौ कार्यों, समहस्तप्रमाणतः । वैशाखस्थानके वत्स!, कूटलक्ष्यस्य वेधने ॥१॥' इति,
Jain Education
anal
For Private sPersonal use Only
www.jainelibrary.org