________________
ब्रह्मचारी-मैथुनपरित्यागी, अनेन ब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्णः-त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि मालावर्णकविलेपनानि यस्मात् स तथा, वर्णकं-चन्दन, अनेन पदद्वयेन शरीरसत्कारपौषधमुक्तं, निक्षिप्तं-हस्ततो विमुक्तं शस्त्रं-क्षुरिकादि मुसलं च येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, | अष्टमभक्तं प्रतिजाग्रत् २-पालयन् २ विहरति-आस्ते इति । 'तए णमित्यादि, ततः स भरतो राजाऽष्टमभक्त परिणमति-पूर्यमाणे,परिपूर्णप्राये, इत्यर्थः,अत्र वर्त्तमाननिर्देशः आसन्नातीतत्वात् 'सत्सामीप्ये'(श्रीसिद्ध० अ.५ पा.४ सू.१) इत्यनेन, पौषधशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति,उपागत्य च कौटु| म्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! हयगजरथप्रवरयोधकलितां चतुर|ङ्गिनी सेनां सन्नाहयत, चतस्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं, चकारः समुच्चये, स चाश्वरथमित्यत्र योजनीयः, अश्ववहनीयो रथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः, अनेनास्य सांग्रा. | मिकरथत्वमाह, तं प्रतिकल्पयत-सज्जीकुरुत इतिकृत्वा-कथयित्वा आदिश्येत्यर्थः, मजनगृहमनुप्रविशतीति, 'अणुप|विसित्ता' इत्यादि, अनुप्रविश्य च मजनगृहं समुक्काजालाकुलाभिरामे इत्यादि, तथैव प्रागुक्तास्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मजनगृहात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च हयगजरथप्रवरवाहनयावत्प
For Private Personel Use Only
OHaw.jainelibrary.org
JEREY