________________
Jain Education Inter
तनृपस्य प्रजाप्रियत्वात् स्तिमिता- निर्भयत्वेन स्थिरा मेदिनी - मेदिन्याश्रितजनो यस्यां सा तथा तां, बहुव्रीहिलक्षण: | कप्रत्ययः, अत्र मेदिनीशब्देन 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायात्तन्निवासी जनो लक्ष्यते, एवंविधां वसुधां अभिजयन् | २-तत्रत्याधिपवशीकरणेन स्ववशे कुर्वन् २ इत्यर्थः, अग्र्याणि वराणि - अत्यन्तमुत्कृष्टानि रत्नानि - तत्तज्जाति प्रधानवस्तूनि आज्ञावशंवदीकृततत्तद्देशाधिपादिप्राभृतीकृतानि प्रतीच्छन् २ - गृण्हन् २ तद्दिव्यं चक्ररक्षमनुगच्छन्, चक्ररक्ष| गत्यङ्कितमार्गेण चलन्नित्यर्थः, योजनं - चतुः क्रोशात्मकं तदन्तरिताभिर्वसतिभिर्विश्रामैर्वसन् २, अयमर्थः - एकस्माद्विश्रामाद्योजनं गत्वा परं विश्राममुपादत्ते इति, यत्रैव मागधतीर्थं तत्रैवोपागच्छति, तत्रोपागतः सन् किं चकारेत्याह- 'उवागच्छत्ता' इत्यादि, उपागत्य च मागधतीर्थस्य दूरं च - विप्रकृष्टं सामन्तं च- आसन्नं दूर सामन्तं ततोऽन्यत्र, नातिदूरे नात्या| सन्न इत्याशयः, द्वादशयोजनायामं नवयोजनविस्तीर्णं वरनगरसदृशं विजययुक्तः स्कन्धावारः - सैन्यं तस्य निवेशं -स्थापनां करोति, कृत्वा च वर्द्धकिरत्नं- सूत्रधार मुख्यं शब्दयति, शब्दयित्वा च एवमवादीदिति, किमवादीदित्याह - 'खिप्पामेव ' त्ति क्षिप्रमेव भो देवानुप्रिय ! मम कृते आवासं पौषधशालां च तत्र पौषधं - पर्वदिनानुष्ठेयं तप उपवासादिः तदर्थं शाला| गृहविशेषः तां कुरु, कृत्वा मम एतामाज्ञप्तिकां प्रत्यर्पयेति । 'तए ण' मित्यादि, स्पष्टं, नवरं 'आवसई' आवासमिति, अथ भरतः किं चक्रे इत्याह- 'तए ण' मित्यादि, ततः स भरतो राजा अभिषेक्यावू हस्तिरलात् प्रत्यवरोहति प्रत्यवरुह्य च | यत्रैव पौषधशाला तत्रैवोपागच्छति उपागत्य च पौषधशालामनुप्रविशति, अनुप्रविश्य व पौषधशालां प्रमार्जयति, प्रमा
For Private & Personal Use Only
lainelibrary.org