SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Jain Education In प्राच्यां वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति इदमपि मागधतीर्थसिसाधयिषया पूर्वां दिशं यियासुः अनुनदीतटमेव गच्छति, तच्च तटं दक्षिणदिग्वर्त्तित्वेन दाक्षिणात्यमिति व्यवह्रियते, अत एव दाक्षिणात्येन कूलेन | पूर्वां दिशं मागधतीर्थाभिमुखं प्रयातं - चलितं चाप्यभवत्, एतच्च प्रयाणप्रथमदिने यावत् क्षेत्रमतिक्रम्य स्थितं तावद् योजनमिति व्यवह्रियते तच्च प्रमाणाङ्गुलनिष्पन्नतया भरतचत्रिणः स्कन्धावारः स्वशक्त्यैव निर्वहति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः, ततः किं जातमित्याह - 'तए णमित्यादि, उक्तार्थप्रायं किमवादीदित्याह - 'खिप्पामेव 'त्ति | क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं - अभिषेकयोग्यं हस्तिरत्नं पट्टहस्तिनमिति भावः प्रतिकल्पयत - सज्जीकुरुत, हयगजरथप्रवरयोधकलितां चतुरङ्गिनीं, अत्र चतुःशब्दस्याऽऽत्वं प्राकृतसूत्रेण, उत्क्तैरेवाङ्गैश्चतुःप्रकारां सेनां सन्नाहयतसन्नद्धां कुरुत, शेषं प्राग्वत्, 'तए ण'मित्यादि, अत्र यावत्शब्दात् 'पुरिसा भरहेणं रण्णा एवं वृत्ता समाणा तुट्ठचित्तमाणंदिआ' इति ग्राह्यं, इदं चाभ्युपगमसूत्र मिश्र माज्ञाकरणसूत्रं स्पष्टमिति, अथ भरतो दिग्यात्रायियासया यं विधिमकार्षीत् तमाह – 'तर ण 'मित्यादि, स्नानसूत्रं पूर्ववत्, 'हये'त्यादि, हयगजरथाः प्रवराणि वाहनानि - वे सरादीनि भटा - योद्धा रस्तेषां चडगरपेहकरत्ति - विस्तारवृन्दं, इदं च देशीशब्दद्वयं तेन संकुलया - व्याप्तया सेनया | सार्द्धमिति शेषः प्रथितकीर्त्तिर्भरतो यत्रैव बाह्योपस्थानशाला यत्रैव चाभिषेक्यं हस्तिरत्नं तत्रैवोपागच्छति उपागत्य |च अञ्जनगिरेः कटको - नितम्बभागस्तत्सन्निभमेतावत्प्रमाणमुच्चत्वेनेत्यर्थः गजपति - राजकुञ्जरं नरपतिर्दुरूढे इति - For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy