________________
Jain Education In
विशेषस्तत्पुष्पं, कोरण्टकं प्राग्वत्, पत्राणि - मरुबकपत्रादीनि दमनकः - स्पष्टः एतैर्वरसुरभिः - अत्यन्तसुरभिः तथा | सुगन्धाः - शोभनचूर्णास्तेषां गन्धो यत्र स तथा तद्धितलक्षण इकप्रत्ययः, पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहो - मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तन्यायेन गृहीतस्तथा तदनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात् पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्द्धवर्णस्य पञ्चवर्णस्य कुसुमनि| करस्य - पुष्पराशेः तत्र - चक्ररत्नपरिकरभूमौ चित्रं - आश्चर्यकारिणं जानूत्सेधप्रमाणेन -जानुं यावदुच्चत्वप्रमाणं प्रमाणोपेतपुरुषस्य चतुरङ्गुलचरणचतुर्विंशत्यङ्गुलजङ्घोच्चत्वमीलने नाष्टाविंशत्यङ्गुलरूपं तेन समाना मात्रा यस्य स तथा तं, अव| धिना-मर्यादया निकरं - विस्तारं कृत्वा चन्द्रप्रभाः- चन्द्रकान्ता वज्राणि - हीरका वैडूर्याणि - बालवायजांनि तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भक्तयो - विच्छित्तयो रचनास्ताभिश्चित्रं, कृष्णागुरुः प्रतीतः कुन्दुरुक्कःचीडा तुरुष्कः - सिल्हकस्तेषां यो धूपो गन्धोत्तमः - सौरभ्योत्कृष्टः, अत्र विशेषणपरनिपातः, प्राकृतत्वात् तेनानुविद्धा| मिश्रा व्याप्तेत्यर्थः तां चशब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः, तेन धूमवति च - धूमश्रेणिं विनिर्मुञ्चन्तं, वैडूर्य| मयं - केवल वैडूर्यरलघटितं स्थालकस्थगनकाद्यवयवेषु दण्डवच्चन्द्रकान्तादिरत्नमयत्वे तु अङ्गारधूमसंसर्गजनिता विच्छायता प्रादुर्भवेत्, 'कडुच्छुकं' धूपाधानकं 'प्रगृह्य' गृहीत्वा 'प्रयतः ' आद्रियमाणो धूपं दहति, धूपं दग्ध्वा च प्रमार्ज - नादिकारण विशेषेण सन्निधीयमानमपि चक्ररनं अत्यासन्नतया मा आशातितं भूषादिति सप्ताष्टपदानि प्रत्यपसर्पतिः
For Private & Personal Use Only
www.jainelibrary.org