SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥१९२॥ Jain Education Int च चक्ररत्नं प्रमार्जयति, यद्यपि न तादृशे रत्ने रजः सम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः, | प्रमार्ण्य च दिव्ययोदकधारया अभ्युक्षति - सिञ्चति स्नपयतीत्यर्थः अभ्युक्ष्य च सरसेन गोशीर्षचन्दनेनानुलिम्पति, अनुलिप्य च अप्रैः - अपरिभुक्तैरभिनवैर्वरैर्गन्धमाल्यैश्चार्चयति, एतदेव व्यक्त्या दर्शयति- पुष्पारोपणं माल्यारोपणं वर्णारोपणं चूर्णारोपणं वस्त्रारोपणं आभरणारोपणं करोति, कृत्वा च अच्छे :- अमलैः श्लक्ष्णैः - अतिप्रतलैः श्वेतैः रजत| मयैरत एव अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, एतादृशैस्तण्डुलै:, अत्र पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, स्वस्तिकादयोऽष्टाष्टमङ्गलकानि - मङ्गल्यवस्तूनि आलिखति-विन्यस्यति, अत्र चाष्टाष्टेति वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वा अष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः, अष्टानामपि मङ्गलकानां, अथोक्तानामेव मङ्गलकानां व्यक्तितो नामानि कथयन् पुनर्विध्यन्तरमाह - 'तद्यथा - स्वस्तिक' मित्यादि, व्याख्या तु प्राग्वत्, अत्र द्वितीयालोपः प्राकृतत्वात्, इमान्यष्टमङ्गलकानि आलिख्यआकारकरणेन कृत्वा - अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारं - उचित सेवामिति, तमेव व्यनक्ति-किन्ते | इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं - पाटलपुष्पं मल्लिका- विचकिलपुष्पं, यलोके वेलि इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरी - आम्रमञ्जरी बकुल:- केसरो यः स्त्रीमुखसी धुसिक्को विकसति तत्पुष्पं, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुब्जकं - कूबो इति नाम्ना वृक्ष For Private & Personal Use Only | ३ वक्षस्कारे चक्रोत्पचितत्पूजो त्सवाः सू. ४३ ॥१९२॥ ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy