SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Jain Education! | योजनीयानि, नवरं युति:-मेलः परस्परमुचितपदार्थानां तया बलेन सैन्येन समुदयेन - परिवारादिसमुदयेन आद| रेण- प्रयलेन आयुधरत्नभक्त्युत्थबहुमानेन विभूषया - उचितनेपथ्यादिशोभया विभूत्या - विच्छद्देन एवंविधविस्तारेण, उक्तामेव विभूषा व्यक्त्याऽऽह - 'सङ्घपुप्फे 'त्यादि, अत्र पुष्पादिपदानि प्राग्वत्, नवरं अलङ्कारो - मुकुटादिरेतद्रूपया | सर्वेषां त्रुटितानां तूर्याणां यः शब्दो - ध्वनिर्यश्च स सङ्गतो निनादः - प्रतिध्वनिस्तेन, अत्र शब्दसन्निनादयोः समाहारइन्द्र:, अथ 'सर्वमनेन भाजनस्थं घृतं पीत' मिति लोकोक्तेः प्रसिद्धत्वात् सर्वशब्देनाल्पीयोsपि निर्दिष्टं भवेत्ततश्च न तथा विभूतिर्वर्णिता भवतीत्याशङ्कमानं प्रत्याह- 'महया इडीए' इत्यादि, योजना तु प्राग्वदेव, यावत् शब्दात् महायुत्यादिपरिग्रहः, महता - बृहता वरत्रुटितानां - निःस्वानादीनां तूर्याणां यमकसमकं - युगपत्प्रवादितं भावे क्तप्रत्ययविधानात् प्रवादनं ध्वनितमित्यर्थस्तेन, शङ्खः-प्रतीतः पणवो-भाण्डपटहो लघुपटह इत्यन्ये पटहस्त्वेतद्विपरीतः भेरीढक्का झल्लरी - चतुरङ्गुलनालिः करटिसदृशी वलयाकारा खरमुही - काहला मुरजो - महामर्द्दल: मृदङ्गो-लघुमर्द्दलः | दुन्दुभिः - देववाद्यं, एषां निर्घोषनादितेन, तत्र निर्घोषो - महाध्वनिर्नादितं च प्रतिरवः एकवद्भावादेकवचनं, पूर्वविशेषणं तूर्यसामान्यविषयमिदं तु तद्व्यक्तिसूचकमित्यनयोर्भेदः, आयुधगृहशालाप्रात्यनन्तरं विधिमाह - ' उवागच्छित्ता' इत्यादि, तत्रोपागत्य आलोके - दर्शनमात्र एव चक्ररत्नस्य प्रणामं करोति, क्षत्रियैरायुधवरस्य प्रत्यक्ष देवतात्वेन सङ्कल्प| नात्, यत्रैव चक्ररलं तत्रैवोपागच्छति, लोमहस्तकं - प्रमार्जनिकां परामृशति -हस्तेन स्पृशति गृह्णातीत्यर्थः, परामृश्य For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy