SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Jain Education In दीर्घत्वं, मुद्रिकाभिः - साक्षराङ्गुलीयकैः पिङ्गला अङ्गुल्यो यस्य स तथा बहुव्रीहिलक्षणः कः प्रत्ययः, नानामणिमयं विमलं महार्घ - बहुमूल्यं निपुणेन शिल्पिना 'ओअविअ'त्ति परिकर्मितं 'मिसिमिसेंत'त्ति दीप्यमानं विरचितं - निम्मितं सुश्लिष्टं - सुसन्धि विशिष्टं - अन्येभ्यो विशेषवत् लष्टं - मनोहरं संस्थितं - संस्थानं यस्य तत् पश्चात् पूर्वपदैः कर्मधारयः, एवंविधं प्रशस्तं आविद्धं परिहितं वीरवलयं येन स तथा अन्योऽपि यः (दि) कश्चिद्वीरव्रतधारी तदाऽसौ - मां विजित्य मोचयत्वेतद्वलयमिति स्पर्द्धयन् (यत्) परिदधाति तद्वीरवलयमित्युच्यते, किं बहुना ? वर्णितेनेति शेषः, 'कप्परुक्खए चेव'त्ति अत्र चेवशब्द इवार्थे तेन कल्पवृक्षक इवालङ्कृतो विभूषितश्च तत्रालङ्कृतो दलादिभिर्विभूषितः फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कृतो विभूषितस्तु वस्त्रादिभिरिति, नरेन्द्रः 'सकोरंट जाव'त्ति अत्र यावत्करणात् 'सकोरंटमलदामेणं छत्तेणं धरिजमाणेण'मिति ग्राह्यं, तत्र सकोरण्टानि - कोरण्टाभिधानकुसुमस्तबकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि मालान्ते शोभार्थं दीयन्ते, मालायै हितानि माल्यानि - पुष्पाणीत्यर्थः, तेषां दामानि -माला यत्र तत्तथा, एवंविधेन छत्रेण ध्रियमाणेन शिरसि, विराजमान इति गम्यं, चतुर्णा - अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानत्वाच्चतुःसङ्ख्याङ्कानां चामराणां वालैवजितमङ्गं यस्येति, मङ्गलभूतो जयशब्दो जनेन कृत आलोके - दर्शने यस्य स तथा, अनेके गणनायका - मल्लादिगणमुख्याः दण्डनायकाः - तन्त्रपालाः यावत्पदात् 'ईसरत - लवरमाडंबि अकोडुंबि अमंत्तिमहामंतिगणगदोवारिअअमच्चचेडपीढमद्दणगरणिगम से डिसेणाव इसत्थवाह' इति द्रष्टव्यं, For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy