________________
श्रीजम्ब. ३२
दारभ्य प्रदक्षिणं करोति, त्रिः प्रदक्षिणयतीत्यर्थः, तथा कृत्वा च ' करतल'त्ति अत्र यावत्पदात् 'करयल परिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं'ति, अत्र व्याख्या करतलाभ्यां परिगृहीतः - आत्तस्तं दश करद्वयसम्बन्धिनो नखाः | समुदिता यत्र तं शिरसि - मस्तके आवर्त्तः- आवर्त्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं शिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं - | मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररत्नस्य प्रणामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामति- निर्याति, | प्रतिनिष्क्रम्य च यत्रैव बाहिरिका - आभ्यन्तरिकापेक्षया वाह्या उपस्थानशाला - आस्थानमण्डपो यत्रैव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च ' करतल जाव'त्ति पूर्ववत् जयेन - परानभिभवनीयत्वरूपेण विजयेन परेषामसहमाना| नामभिभावकत्वरूपेण वर्द्धयति - जयंविजयाभ्यां त्वं वर्द्धयस्वेत्याशिषं प्रयुङ्क्ते वर्द्धयित्वा चैवमवादीत् किं तदित्याह - ' एवं खलु' इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्ययादिना यदन्यथा भवति, यद्देवानुप्रियाणां - राजपादानां आयुधगृहशालायां दिव्यं चक्ररनं समुत्पन्नं तदेव तत् णमिति प्राग्वत् देवानुप्रियाणां प्रियार्थतायै - प्रीत्यर्थं प्रियं इष्टं निवे| दयामः 'एतत् ' प्रियनिवेदनं प्रियं 'भे' भवतां भवतु, ततो भरतः किं चक्रे इत्याह-- 'तते ण' मित्यादि, ततः स भरतो . राजा तस्यायुधगृहिकस्य समीपे एनमर्थं श्रुत्वा - आकर्ण्य कर्णाभ्यां निशम्य - अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाद्ये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाह -- विकसित कमलवन्नयनवदने यस्य स | तथा प्रचलितानि - चक्ररलोत्पत्तिश्रवणजनितसम्भ्रमा (तरेकात् कम्पितानि वरकटके - प्रधानवलये त्रुटिके - बाहुरक्षकौ १ जयः सामान्यत उपद्रवादिविषयः विजयः स एव विशिष्टतरः प्रबलपरदलमर्दन समुद्भवः ( इति ही ० वृत्तौ )
For Private & Personal Use Only
jainelibrary.org