________________
जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, कथमेनां जम्बूद्वीपवक्तव्यतां सर्वज्ञो भगवान् प्रज्ञापयिष्यतीति, तथा उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, | प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न ह्यनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, हेतुत्वप्रदर्शनं च उचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्।" इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, तथा 'उप्पण्णसंसये उप्पण्णकोउहल्ले' इति प्राग्वत् , तथा 'संजायसडे' इत्यादिपदषदं प्राग्वत्, नवरमिह संशब्दः प्रक-||
दिवचनो वेदितव्यः, अन्ये त्वाः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षप्रतिपादनाय ॥ स्तुतिमुखेन ग्रन्थकृतोक्काः, न चैव पुनरुक्तदोषः, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन । यत्प-||
दमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥१॥"इति, उत्थानमुत्था-ऊर्ध्व वर्त्तनं तया उत्तिष्ठति-उध्वो भवति, ऊर्देति पाठा-18 न्तरम् , इह 'उढेई'त्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठत इति ततस्तद्ध्यवच्छेदार्थमुक्तमुत्थयेति, उपागच्छतीत्युत्तरक्रियापेक्षया उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायेति क्त्वाप्रत्ययेन निर्दिशति, यद्यपि द्वयोः क्रिययोः॥४॥ पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल आक्षेपलभ्य एव तथापि भुञ्जानो ब्रजति इत्यादौ द्वयोः क्रिययोयौंगपद्यदर्शनादानन्तर्यसू|चनार्थमित्थमुपन्यासः, उत्थानक्रियासव्यपेक्षत्वादुपागमनक्रियाया इति, तथा प्राकृतशैलीवशादव्ययत्वाद्वा 'येने'ति
Meaen902020009000000000000000
एesteeseacheeseseaeeeeeeeeeo
Jain Education into
a
For Private Personal Use Only
jainelibrary.org
19