________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ १६ ॥
Jain Education Inter
विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्तेन विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामन्तं - संनिकृष्टं तत्प्रतिषेधाद् अदूरसामन्तं तत्र, नातिदूरे नातिनिकटे इत्यर्थः, किंविधः सन् तत्र विहरतीति ? - ऊर्ध्वं जानुनी यस्य स तथा, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कटुकासन इत्यर्थः, अधः| शिरा-नो तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभाग नियमितदृष्टिरित्यर्थः, ध्यानं धर्म्म शुक्लं वा तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपागतः, यथा हि कोष्ठके धान्यं निक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन - पञ्चाश्रवनिरोधादिलक्षणेन तपसा - अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, | संयमतपसोर्ग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराण| कर्मनिर्जराहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षणो मोक्ष इति, आत्मानं 'भावयन्' वासयन् 'विहरती 'ति तिष्ठतीत्यर्थः, ततो ध्यानकोष्ठोपगततया विहरणादनन्तरं, 'ण' मिति वाक्यालङ्कारे, 'से' इति प्रस्तुतपरामर्शार्थः, अनेन गतार्थत्वे यत्पुनर्भगवान् गौतम इत्युपादानं तत्पुनः पुनरुपात्तं पापापनोदकं भगवतो गौतमस्य नामेति सुगृहीतनामधेयत्वमाह, 'जायसङ्के' इत्यादि, जातश्श्रद्धादिविशेषणः सन्नुत्तिष्ठतीति योगः, तत्र जाता - प्रवृत्ता श्रद्धा - इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्य स तथा, तथा जातः संशयो यस्य स तथा, संशयो नामानवधारितार्थं ज्ञानं, स चैवं - तीर्थान्तरीयैर्जम्बूद्वीपवक्तव्यताऽन्यथाऽन्यथोपदिश्यते ततः किं तत्त्वमिति संशयः, तथा
For Private & Personal Use Only
गौतमवर्णनं
॥ १६ ॥
ainelibrary.org