SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Jain Education In | इन दहन समर्थतया ज्वलितं तपो - धर्मध्यानादि यस्य स तथा, तथा तप्तं तपो येन स तथा, एवं हि तेन तप्तं तपो येन सर्वाण्यशुभानि कर्माणि भस्मसात्कृतानीति, तथा महत्-प्रशस्तमाशं सादिदोषरहितत्वात् तपो यस्य स तथा, तथा उदार:प्रधानः, अथवा 'औरालो' भीष्मः, उग्रादिविशेषणविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, तथा घोरो-निर्घृणः, परीषहेन्द्रियादिरिपुगणविनाशनमाश्रित्य निर्दय इत्यर्थः, अन्ये तु आत्मनिरपेक्षं घोरमाहुः, तथा घोरा- इतरैर्दुरनुचरा गुणाः - मूलगुणादयो यस्य स तथा, तथा घोरैस्तपोभिस्तपस्वी, तथा घोरं दारुणमल्पसत्त्वैरनुचरत्वात् यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, उच्छूढं उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा, सहि| ता - शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुला - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या - | विशिष्ट तपोजन्य लब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चतुर्दश पूर्वाणि विद्यन्ते यस्य स तथा तेन तेषां रचितत्वात्, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह- 'चतुर्ज्ञानोपगतः ' मतिश्रुतावधिमनः पर्यायरूपज्ञान चतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वयकलितोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्दश पूर्वविदां षट्स्थानपतितत्वेन श्रवणात्, अत आह— सर्वे च ते अक्षरसन्निपाताश्च - अक्षरसंयोगास्ते ज्ञेयतया सन्ति यस्य स तथा, किमुक्तं भवति ! - या काचिज्जगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपि जानाति, अथवा श्रव्याणि - श्रुतिसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति स तथा एवंगुणविशिष्टो भगवान् For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy