SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | रेण तत्तत्कालभाविभरतनाम चक्रवयुद्देशेन राजवर्णनमाह - 'बिइओ गमो' इत्यादि, द्वितीयो गमः - पाठविशेषोप| लक्षितो ग्रन्थो राजवर्णकस्यायं, 'तत्र' तस्यां विनीताया, असङ्ख्येयः कालो यैर्वर्षैस्तानि वर्षाणि असङ्ख्येयानीत्यर्थः, | तेषामन्तरालेन विचालेन, अयमर्थ:- प्रवचने हि कालस्यासङ्ख्येयता असङ्ख्येयैरेव च वर्षेर्व्यवहियते, अन्यथा समयापेक्षयाऽसङ्ख्यत्वे ऐदंयुगीन मनुष्याणामसङ्ख्येयायुष्कत्वव्यवहारप्रसङ्गः, तेनासङ्ख्येयवर्षात्मकासश्येयकाले गते एकस्माद् भरतचक्रवर्त्तिनोऽपरो भरतचक्रवर्त्ती यतः प्रकृतक्षेत्रस्य भरतेति नाम प्रवर्त्तते स उत्पद्यते इति क्रियाकारकसम्बन्धः, वर्त्तमाननिर्देशः प्राग्वत्, आवश्यकचूर्णौ तु " तत्थ य संखिज्जकालवासाउए" इति पाठः, तत्र च भरते | सङ्ख्यात कालवर्षाणि आयुर्यस्य स सङ्ख्यातकालवर्षायुष्कः, तेनास्य युग्मिमनुष्यत्वव्यवहारो व्यपाकृतो द्रष्टव्यः तेषाम| सङ्ख्यातवर्षायुष्कत्वादिति, ननु भरतचक्रिणोऽसङ्ख्यातकालेऽतीयुषि सगरचत्र्यादिभिरिदं सूत्रं व्यभिचारि, तेषां | भरतनामकत्वाभावात् उच्यते, नहीदं सूत्रमसङ्ख्येय कालवर्षान्तरेण सकलकालवर्त्तिनि चक्रवर्त्तिमण्डले नियमेन भरतनामकचक्रवर्त्तिसम्भवसूचकं किन्तु कदाचित्तत्सम्भवसूचकं, यथा आगामिन्यामुत्सर्पिण्यां भरताख्यः प्रथ| मचक्री, यत आह- 'भरहे अ दीहदंते अ, गूढदंते अ सुद्धदंते अ । सिरिअंदे सिरिभूई, सिरिसोमे अ सत्तमे ॥ १ ॥ " इत्यादिसमवायाङ्गतीर्थोद्वारप्रकीर्णकादौ, स च कीदृश इत्याह- 'यशस्वी'ति व्यक्तं, उत्तमः शलाकापुरुषत्वात्, अभिजातः-कुलीनः श्रीऋषभादिवंश्यत्वात् सत्त्वं- साहसं वीर्य - आन्तरं वलं पराक्रमः - शत्रुवित्रासनशक्तिरेते गुणा For Private & Personal Use Only w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy