SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥१८॥ यस्य, एतेन राजन्योचितसर्वातिशायिगुणवत्त्वमाह, प्रशस्ताः-तत्कालीनजनापेक्षया श्लाघनीयाः वर्ण:-शरीरच्छविः ३वक्षस्कारे खरो-ध्वनिः सार:-शुभपुद्गलोपचयजन्यो धातुविशेषः शरीरदायहेतुः संहननं-अस्थिनिचयरूपं तमकं-शरीरंग भरतराजबलि औत्पत्त्यादिका धारणा-अनुभूतार्थवासनाया अविच्युतिः मेधा-हेयोपादेयधीः संस्थानं यथास्थानमङ्गोपाङ्ग- वर्णन . विन्यासः शीलं-आचारः प्रकृतिः-सहजं ततो द्वन्द्वे, प्रशस्ता वर्णादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाः वर्णस्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधाना-अनन्यवर्तिनो गौरवादयोऽर्था यस्य सः तथा, तत्र गौरवं-महासाम|न्तादिकृताभ्युत्थानादिप्रतिपत्तिः छाया-शरीरशोभा गतिः-सञ्चरणमिति, अनेकेषु-विविधप्रकारेषु वचनेषु-वक्तव्येषु प्रधानो-मुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्त्तनादौ "आदौ तावन्मधुरं मध्ये रूक्षं ततः परं कटुतम् । भोजनविधिमिव विबुधाः स्वकार्यसिद्धी वदन्ति वचः॥१॥" अथवा "सत्यं मित्रैः प्रियं स्त्रीभिरलीकमधुरं द्विषा । अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह ॥२॥” इति, तेजः-परासहनीयः पुण्यः प्रतापः अभेदोपचारेण तद्वान् |'तेजसां हि न वयः समीक्ष्यते' इत्यादिवत् , आयुर्बलं-पुरुषायुषं तद् यावदीयं तेन युक्तः, तेच जरारोगादिनोपहतवीर्यत्वं नास्येति भावः, पुरुषायुपं च तदानीन्तनकाले प्राकृतजनानां पूर्वकोटिसद्भावेऽप्यस्य त्रुटिताङ्गप्रयाएं बोद्धव्यं, ॥१८॥ नरदेवस्यैतावत एवायुषः सिद्धान्ते भणनात्, एतेन भेदः पूर्वविशेषणादस्येति, अशुषिरं-निश्छिद्रं अत एव घननिचित-निर्भरभृतं यल्लोहश्शृङलं तदिव नाराचवज्रऋषभं प्रसिद्ध्या वज्रऋषभनाराचं संहननं यत्र तं तथाविधं देहं । Jan Education in For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy