SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जाऽमरशैलस्थनक्षत्रालिरिवोद्गता ॥ ४ ॥ चतुरस्राश्च त्र्यम्राश्च, वृत्ताश्च स्वस्तिकास्तथा । मन्दाराः सर्वतोभद्रा, एकभूमा | द्विभूमिकाः॥५॥ त्रिभूमाद्याः सप्तभूमं, यावत्सामान्यभूभुजाम् । प्रासादाः कोटिशस्तत्राभूवन रत्नसुवर्णजाः ॥६॥ युग्मं॥ दिश्यशान्यां सप्तभूमं, चतुरस्रं हिरण्मयम् । सवप्रखातिकं चक्रे, प्रासादं नाभिभूपतेः ॥७॥ दिश्यन्द्रयां सर्वतो-13 भद्रं, सप्तभूमं महोन्नतम् । वर्तुलं भरतेशस्य, प्रासादं धनदोऽकरोत् ॥८॥ आग्नेय्यां भरतस्यैव, सौधं बाहुबलेरभूत् ।। शेषाणां च कुमाराणामन्तरा ह्यभवन् तयोः॥९॥ तस्यान्तरादिदेवस्य, चैकविंशतिभूमिकम् । त्रैलोक्यविभ्रमं नाम, प्रासादं रत्नराजिभिः॥१०॥ सद्धप्रखातिकं रम्यं, सुवर्णकलशावृतम् । चञ्चद्ध्वजपटव्याजान्नत्यन्तं निर्ममे हरिः॥ ॥११॥ युग्मम् । अष्टोत्तरसहस्रण, मणिजालैरसौ बभौ । तावत्सङ्ख्यमुखै रि, ब्रुवाणमिव तद्यशः॥ १२॥ कल्पदुमैर्वृताः सर्वेऽभूवन् सेभहयौकसः । सप्राकारा बृहद्वासःपताकामालभारिणः ॥ १३ ॥ सुधर्मसदृशी चारु, रत्नम-1ST य्यभवत्पुरी । युगादिदेवप्रासादात्, सभा सर्वप्रभाभिधा ॥ १४ ॥ चतुर्दिक्षु विराजन्ते, मणितोरणमालिकाः। पञ्चवर्णप्रभांकूरपूरडम्बरिताम्बराः॥१५॥ अष्टोत्तरसहस्रेण, मणिबिम्बैर्विभूषितम् । गव्यूतिद्वयमुत्तुङ्गं, मणिरत्नहिरण्मयम् ॥ १६ ॥ नानाभूमिगवाक्षाढ्यं, विचित्रमणिवेदिकम् । प्रासादं जगदीशस्य, व्यधाच्छ्रीदः पुरान्तरा ॥ १७॥ युग्मम् । सामन्तमण्डलीकानां, नन्द्यावर्तादयः शुभाः । प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥ १८ ॥ अष्टोत्तरसहस्रं तु, जिनानां भवनान्यभुः। उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यथ ॥ १९॥ चतुष्पथप्रतिबद्धा, चतुरशीतिरुच्चकैः। Jain Education a l For Private Person Use Only 2 ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy