SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ त्याह-विष्कम्भवाहल्येन, अत्र समाहारद्वन्द्ववशादेकवद्भावः, कोऽर्थः-यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पञ्चशतयोजनानि षड्विंशतिर्योजनानि षट् च कला योजनेकविंशतिभागरूपाः तदतिरिक्तस्थाने तु अनियततया तथाऽस्यापि विष्कम्भः, बाहल्यं तु यावता जलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमाद्रीकृत्य तापः उपशाम्यते तावजलदलनि३ पन्नमेव ग्राह्यमिति, अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह-'तए णमित्यादि, ततश्च स-पुष्कलसंवर्तकमेघः । | क्षिप्रमेव-उन्नमनकाल एव 'पतणतणाइस्सई ति अनुकरणवचनमेतत् प्रकर्षण स्तनितं करिष्यति, गर्जिष्यतीत्यर्थः, तथा च कृत्वा क्षिप्रमेव युगं-रथावयवविशेषः मुसलं-प्रतीतं मुष्टिः-पिण्डिताङ्गुलिकः पाणिः एषां यत्प्रमाणमायामबाहल्यादिभिस्तेन मात्रा यासां ताभिः, इयता प्रमाणेन दीर्घाभिः-स्थूलाभिरित्यर्थः धाराभिः ओघेन-सामान्येन सर्वत्र निर्विशेषेण मेघो यत्र तं तथाविधं सप्तरात्रं-सप्ताहोरात्रान् वर्ष वर्षिष्यति करिष्यतीत्यर्थः, 'जे णमिति पूर्ववत् भरतस्य वर्षस्य-क्षेत्रस्य भूमिभागं अङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तकवेल्लुकभूतं तप्तसमज्योतिर्भूतं निर्वापयिष्यति स पुष्करसंवतको महामेघः, अथ द्वितीयमेघवकव्यतामाह-'तसिं च णमित्यादि, तस्मिंश्च चशब्दो वाक्यान्तरप्रा. रम्भार्थः,पुष्कलसंवर्तके महामेघे सप्तरात्रं यावन्निपतिते सति-निर्भर वृष्टे सति अत्रान्तरे क्षीरमेघो नामतो महामेघः प्रादुर्भविष्यति, शेषं 'भरते त्यादि प्राग्वत् , अथ स प्रादुर्भवन् किं करिष्यतीत्याह-'तए णमित्यादि, अत्र वासिस्सइत्ति पर्यन्तं प्राग्वत् , यो मेघो भरतस्य भूम्या वर्ण गन्धं रसं स्पर्श च जनयिष्यति, अत्र वर्णादयः शुभा एव ग्राह्या, Jain Education inte For Private Personel Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy