SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥१७४॥ Jain Education Inte | येभ्यो लोकोऽनुकूलं वेदयते, अशुभवर्णादयः प्राक्कालानुभावजनिता वर्त्तन्त एवेति, ननु यदि शुभवर्णादीन् जनयति | तदा तरुपत्रादिषु नीलो वर्णो जम्बुफलादिषु कृष्णः मरिचादिषु कटुको रसः कारवेल्लादिषु तिक्तः चणकादिषु रूक्षः | स्पर्शः सुवर्णादिषु गुरुः क्रकचादिषु खरः इत्यादयोऽशुभवर्णादयः कथं सम्भवेयुरिति १, उच्यते, अशुभपरिणामा अप्ये| तेऽनुकूलवेद्यतया शुभा एव, यथा मरिचादिगतः कटुकरसादिः प्रतिकूलवेद्यतया शुभोऽप्यशुभ एव, यथा कुष्ठादिगतः श्वेतवर्णादिरिति, अथ तृतीयमेघवक्तव्यतामाह - 'तंसि' इत्यादि, तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरे घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्वं प्राग्वत्, अथ स प्रादुर्भूतः किं करिष्यतीत्याह-- 'तए णमित्यादि, सर्व प्राग्वत्, नवरं यो घृतमेघो भरतभूमेः स्नेहभावं - स्निग्धतां जनयिष्यतीति, अथ चतुमेघवक्तव्यतामाह-'तंसि' इत्यादि, तस्मिंश्च घृतमेघे सप्तरात्रं निपतिते सति अत्र - प्रस्तावेऽमृतमेघो यथार्थनामा महा| मेघः प्रादुर्भविष्यति यावद्वर्षिष्यति इति पर्यन्तं पूर्ववत्, यो मेघो भरते वर्षे वृक्षा गुच्छा गुब्मा लता वल्ल्यः तृणानि प्रतीतानि पर्वगा - इक्ष्वादयः हरितानि दूर्वादीनि औषध्यः - शाल्यादयः प्रवाला : - पल्लवाः अङ्कुराः - शाल्यादिबीजसूचयः इत्यादीन् तृणवनस्पतिकायिकान् - बादरवनस्पतिकायिकान् जनयिष्यतीति । अथ पञ्चममेघ स्वरूपवक्तव्यतामाह - 'तंसि च ण' मित्यादि, व्यक्तं, परं रसजनको मेघो रसमेघः, यो रसमेघस्तेषाममृतमेघोत्पन्नानां बहूनां वृक्षाद्यङ|रान्तानां वनस्पतीनां तितो निम्बादिगतः कटुको मरिचादिगतः कषायों विभीतकामलकादिगतः अम्बोऽम्लिकाद्याश्रितः For Private & Personal Use Only | २ वक्षस्कारे पुष्कलसंव क्षीरघृतामृतरसमे घाः सू. ३८ ॥१७४॥ w.jainelibrary.org.
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy