________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ १७१ ॥
Jain Education Inter
यकारलोपोऽत्र प्राकृतत्वात् चकारौ परस्परं समुच्चयार्थी, बिलेभ्यो निर्द्धाविष्यन्ति - शीघ्रया गत्या निर्गमिष्यन्ति, | मुहूर्त्तात्परतोऽतितापातिशीतयोरसहनीयत्वात्, बिलेभ्यो निर्द्धाव्य मत्स्यकच्छपान् स्थलानि - तटभूमी: णिगन्तत्वाद् द्विकर्मकत्वं ग्राहयिष्यन्ति - प्रापयिष्यन्ति, ग्राहयित्वा च शीतातपतप्तैः रात्रौ शीतेन दिवा आतपेन ततैः - रसशोषं प्रापि | तैराहारयोग्यतां प्रापितैरित्यर्थः, अतिसरसानां तज्जठराग्निनाऽपरिपाच्यमानत्वाद् मत्स्यकच्छपैरेकविंशतिं वर्षसहस्राणि यावद्वृत्तिं-आजीविकां कल्पयन्तो - विदधाना विहरिष्यन्ति । अथ तेषां गतिस्वरूपं पृच्छन्नाह - 'ते ण' मित्यादि, ते मनुजा भगवन् ! निश्शीला - गताचाराः निर्व्रता - महाव्रताणुव्रत विकलाः निर्गुणा- उत्तरगुणविकलाः निर्मर्यादा :- अविद्यमान कुलादिमर्यादाः निष्प्रत्याख्यानपौषधोपवासा -असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः, 'असणं' प्रायो मांसाहाराः, कथमित्याह - मत्स्याहारा यतः, तथा 'क्षौद्राहाराः' मधुभोजिनः क्षीणं वा तुच्छावशिष्टंतुच्छधान्यादिकं आहारो येषां ते तथा, इदं विशेषणं सूपपन्नमेव, पूर्वविशेषणे प्रायोग्रहणात् केषुचिदादर्शेषु अत्र गड्डाहारा इति दृश्यतें, स लिपिप्रमाद एव सम्भाव्यते, पञ्चमाङ्गे सप्तमशते षष्ठोदेशे दुष्पमदुष्पमावर्णनेऽदृश्यमानत्वात्, अथवा यथासम्प्रदायमेतत्पदं व्याख्येयं, कुणप :- शवस्तद्रसोऽपि वसादि: कुणपस्तदाहाराः, 'कालमासे' | इत्यादिकं प्राग्वत्, निर्वचनसूत्रमपि प्राग्वत्, नवरं 'ओसण्ण'मिति ग्रहणात् कश्चित् क्षुद्राहारवान् देवलोकगाम्यपि अक्लिष्टाध्यवसायात्, अथ ये तदानीं क्षीणावशेषाश्चतुष्पदास्तेषां का गतिरिति पृच्छति - 'तीसे ण' मित्यादि, तस्यां
For Private & Personal Use Only
२वक्षस्कारे चतुर्थपश्च
मषष्ठारकाः
सू. ३४-३५ -३६
॥१७१॥
Jainelibrary.org