________________
Jain Education Inte
| कृत्वा 'बावत्तरिं'ति द्वासप्ततिः स्थानविशेषाश्रिता निगोदा: - कुटुम्बानि, द्विसप्ततिसङ्ख्या चैवं - वैताढ्यादर्वाग् गङ्गायास्तटद्वये नवनवबिलसम्भवादष्टादश, एवं सिन्ध्वा अपि अष्टादश, एषु च दक्षिणार्द्धभरतमनुजा वसन्ति, वैताढ्यात् | परतो गङ्गातटद्वयेऽष्टादश, एवं तत्रापि सिन्धुतटद्वये अष्टादश, एषु चोत्तरार्द्ध भरतवासिनो मनुजा वसन्ति, बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् बीजस्येव मात्रा - परिमाणं येषां ते तथा, स्वल्पाः स्वरूपत इत्यर्थः, बिलवा| सिनो मनुजा भविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेन न पुनरुक्तमवसातव्यं, अथ तेषामाहारस्वरूपं पृच्छन्नाह - 'ते णं भंते! मणुआ' इत्यादि, ते भगवन्! मनुजाः किमाहरिष्यन्ति ? - किं भोक्ष्यन्ते, भगवानाह - गौतम ! तस्मिन्, | काले- एकान्तदुष्पमालक्षणे तस्मिन् समये - षष्ठारकप्रान्त्यरूपे गङ्गासिन्धू महानद्यौ रथपथः - शकटचक्रद्वयप्रमितो मार्गस्तेन मात्रा - परिमाणं यस्य स तादृशो विस्तरः- प्रवाहव्यासो ययोस्ते तथा, अक्षं - चक्रनाभिक्षेप्य काष्ठं तत्र स्त्रोतोधुरः प्रवेशरन्धं तदेव प्रमाणं तेन मात्रा - अवगाहना यस्य तत्तथाविधं जलं वक्ष्यतः, इयत्प्रमाणे न गम्भीरं जलं धरिष्यत इत्यर्थः ननु क्षुल्लहिमवतोऽरकव्यवस्थाराहित्येन तद्गतपद्मद्रहनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोक्तरूपी ( प्रवाहौ ) कथं सङ्गच्छेते ?, उच्यते, गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवशादपरजलशोषे समुद्रप्रवेशे तयोरुक्तमात्रावशेषजलवाहित्वमिति न काप्यनुपपत्तिरिति, तदपि च जलं बहुमत्स्यकच्छपाकीर्णं न चैव अब्बहुलं - बह्वप्कायं सजातीयापरापूकाय पिण्डबहुलमित्यर्थः, ततस्ते मनुजाः सूरोद्गमनमुहूर्त्ते सूरास्तमयनमुहूर्त्ते च
For Private & Personal Use Only
jainelibrary.org