SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter दर्शनीयं रूपं येषां ते तथा, सङ्कुटितं सङ्कुचितं बल्यो - निर्मासत्वग्विकारास्ता एव तदनुरूपाकारत्वात् तरङ्गा-चीचयस्तैः परिवेष्टितानि अङ्गानि - अवयवा यत्र तदेवंविधमङ्गं शरीरं येषां ते तथा, के इवेत्याह-जरापरिणता इव, स्थवि - | रनरा इवेत्यर्थः, स्थविराश्चान्यथापि व्यपदिश्यन्ते इति जरापरिणतग्रहणं, प्रविरला सान्तरालत्वेन परिशटिता च दन्तानां | केषाञ्चित्पतितत्वेन दम्तश्रेणिर्येषां ते तथा, उद्भटं - विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, क्वचित्तु उन्भडघाडामुहा इति पाठः, तत्र उद्भटे स्पष्टे घाटामुखे - कृकाटिकावदने येषां ते तथा, विषमे नयने येषां ते तथा, वक्रा नासा येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभि| विकृतं च - बीभत्सं भीषणं - भयजनकं मुखं येषां ते तथा, ददुकिटिभसिध्मानि - क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः - शरीरत्वग्येषां ते तथा, अत एव चित्रलाङ्गाः - कर्बुरावयवशरीराः कच्छ्रः - पामा तया कसरैश्च खस्रैरभिभूताव्याप्ता ये ते तथा, अत एव खरतीक्ष्णनखानां कठिनतीत्रनखानां कण्डूयितेन - खर्जूकरणेन विकृता - कृतव्रणा तनुःशरीरं येषां ते तथा, दोलाकृतयः - अप्रशस्ताकाराः, क्वचित् टोलागइति पाठस्तत्र टोलगतयः - उष्ट्रादिसमप्रचाराः, | तथा विषमाणि दीर्घद्रस्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, तथा उत्कटुकानि - यथास्थान - | मनिविष्टानि अस्थिकानि - कीकसानि विभक्तानीव श्व-दृश्यमानान्तराणीव येषां ते तथा, अत्र विशेषणपदव्यत्ययः प्राग्वत्, अथवा उत्कुटुकस्थितास्तथास्वभावत्वात् विभक्ताश्च - भोजनविशेषरहिता ये ते तथा, 'दुर्बला' बलहीनाः For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy