SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २वक्षस्कारे चतुर्थपञ्च| मषष्ठारकाः सू. ३४-३५ श्रीजम्बू-18 अशुभत्वं च विशेषत आह--म मनसा-अन्तःसंवेदनेन शुभतया ज्ञायन्ते इत्यमनोज्ञाः, अमनोज्ञतयाऽनुभूतमपि द्वीपशा- स्मृतिदशायां दशाविशेषेण किञ्चिन्मनोझं स्यादत आह-'अमनोऽमाः' न मनसा अम्यन्ते-गम्यन्ते पुनः स्मृत्या इत्यन्तिचन्द्री- मनोमाः एकार्थिका वा एते शब्दा अनिष्टताप्रकर्षवाचका इति, मूर्त्या अनिष्टादिविशेषणोपेता अपि केचिद् हुम्बा या वृत्तिः इव सुखराः स्युरित्याह-हीनो-लानस्येव स्वरो येषां ते तथा, दीनो दुःखितस्येव स्वरो येषां ते तथा, अनिष्टादिशब्दा ॥१६९॥ उतार्था एवात्र स्वरेण योजनीयाः, 'अनादेयवचनप्रत्याजाताः' अनादेयं-असुभगत्वाद् अग्राह्यं वचनं-वचः प्रत्याजातं च-जन्म येषां ते तथा, निर्लजाः व्यक्तं, कूट-भ्रान्तिजनकद्रव्यं कपट-परवञ्चनाय वेषान्तरकरणं कलहः-प्रतीतः वधो-हस्तादिभिस्ताडनं बन्धो-रजभिः संयमनं वैरं-प्रतीतं तेषु निरताः, मर्यादातिक्रमे प्रधाना-मुख्याः , अकार्ये | नित्योद्यताः, गुरूणां-मात्रादिकानां नियोगः-आज्ञा तत्र यो विनय:-ओमित्यादिरूपस्तेन रहिताः, चः पूर्ववत् , विकलंअसम्पूर्ण काणचतुरङ्गलिकादिस्वभावत्वाद्रूपं येषां ते तथा, प्ररूढा-गर्तासूकराणामिवाजन्मसंस्काराभावात् वृद्धिं गता नखाः केशाः श्मश्रुणि रोमाणि च येषां ते तथा, काला:-कृतान्तसदृशाः क्रूरप्रकृतित्वात् कृष्णा वा खरपरुषा:-स्पर्शतोऽतीव कठोराः श्यामवर्णा-नीलीकुण्डे निक्षिप्तोरिक्षप्ता इव, ततः कर्मधारयः, क्वचिद् ध्यामवर्णा इत्यपि पदं दृश्यते, तत्रानुज्वलवर्णा इत्यर्थः, स्फुटितशिरसः-स्फुटितानीव स्फुटितानि राजिमत्त्वात् शिरांसि-मस्तकानि येषां ते सथा, कपिलाः केचन पलिताश्च-शुक्लाः केचन केशा येषां ते तथा, बहुस्नायुभिः-प्रचुरस्नसाभिः संपिनद्धं-बद्धमत एव दुःखेन ॥१६९ Jain Education inte For Private Personal Use Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy