SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ दुर्गमाणि निम्नानि च तान्युन्नतानि च निम्नोन्नतानि-उच्चावचानीत्यर्थः, पश्चाद् द्वन्द्वः, तानि च कर्मभूतानि शाश्वतनदीत्वाद् गङ्गासिन्धुवर्जानि समीकरिष्यन्ति । अथ तत्र भरतभूमिस्वरूपप्रश्नमाह-'तीसे णमित्यादि, तस्यां भदन्त ! समायां भरतस्य भूमेः कीदृशक आकारभावप्रत्यवतारः भविष्यति', भगवानाह-गौतम ! भूमी भविष्यति, अङ्गारभूता-ज्वालारहितवह्निपिण्डरूपा मुर्मुरभूता-विरलाग्निकणरूपा क्षारिकभूता-भस्मरूपा तप्तकवेल्लुकभूता-बहिमतप्तकवेल्लुकरूपा 'तप्तसमज्योतिर्भूता' तप्तेन भावे कप्रत्ययविधानात् तापेन समा-तुल्या ज्योतिषा-वह्निना भूता-जाता या सा तथा, पदव्यत्यय एवं समासश्च प्राकृतत्वात् , धूलिबहुलेत्यादौ धूलि:-पांशुः रेणुः-वालुका पङ्कः-कईमः पनकः-प्रतलः कईमः चलनप्रमाणकर्दमश्चलनीत्युच्यते, अत एव बहूनां धरणिगोचराणां सत्त्वानां दुःखेन नितरां क्रमःक्रमणं यस्यां सा दुनिष्क्रमा, दुरतिक्रमणीयेत्यर्थः, चः समुच्चये, अपिशब्देन दुर्निषदादिपरिग्रहः, अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्तिना भविष्यतिपदेन न पौनरुक्त्यं । अथ तत्र मनुष्यस्वरूपं पृच्छति'तीसे ण'मित्यादि, प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे गौतम ! मनुजा भविष्यन्ति, कीदृशा इत्याह-दूरूपा-दुःस्वभावाः दुर्वर्णाः-कुत्सितवर्णाः, एवं दुर्गन्धाः दूरसाः-रोहिण्यादिवत् कुत्सितरसोपेताः दुःस्पर्शाः-कर्कशादिकुत्सितस्पशाः अनिष्टा-अनिच्छाविषयाः, अनिष्टमपि किश्चित्कमनीयं स्यादित्यत आह-अकान्ताः-अकमनीयाः, अकान्तमपि किञ्चिकारणवशात् प्रीतये स्यादतोऽप्रिया-अप्रीतिहेतवः, अप्रियत्वं च तेषां कुत इत्याह-अशुभा-अशोभनभावरूपत्वात् , धीजम्बू. २९ Jain Education in For Private Porn Use Only IONaw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy