________________
। एवेति, आह-अत्र पालयन्ति अन्तं कुर्वन्ति इत्यादौ भविष्यत्कालप्रयोगे कथं वर्तमाननिर्देशः?, उच्यते, सर्वास्वप्य
वसर्पिणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्तमानकाले वर्तमानप्रयोगः, यथा द्वे सागरोपमे शको राज्य कुरुते इत्यादौ, तर्हि दुःषमासमा कालः प्रतिपत्स्यते इत्यादिप्रयोगः कथमिति चेत्, उच्यते, प्रज्ञापकपुरुषापेक्षयैत
त्प्रयोगस्यापि साधुत्वात् , पुनरपि तस्यां किं किं वृत्तमित्याह-'तीसे ण'मित्यादि, तस्या दुष्षमानाम्याः समायाः | पश्चिमे त्रिभागे वर्षसहस्रसप्तकप्रमाणेऽतिक्रामति सति न तु अवशिष्टे तथा सति एकविंशतिसहस्रवर्षप्रमाणश्रीवीर-18
तीर्थस्याव्युच्छित्तिकालस्यापूर्तेः गणः-समुदायो निजज्ञातिरितियावत् तस्य धर्मः-स्वस्वप्रवर्तितो व्यवहारो विवाहा-| दिकः पाखण्डाः-शाक्यादयस्तेषां धर्मः प्रतीत एव राजधर्मो-निग्रहानुग्रहादिः जाततेजा:-अग्निः, स हि नातिस्निग्धे सुषमसुषमादौ नातिरूक्षे दुषमदुष्पमादौ चोत्पद्यत इति, चकारादग्निहेतुको व्यवहारो रन्धनादिरपि, चरणधर्म:-चारित्रधर्मः, चशब्दाद् गच्छव्यवहारश्च, अत्र धर्मपदव्यत्ययःप्राकृतत्वात् , व्युच्छेत्स्यति-विच्छेदं प्राप्स्यसि, सम्यक्त्वधर्मस्तु केषाञ्चित्सम्भवत्यपि, बिलवासिनां हि अतिक्लिष्टत्वेन चारित्राभावः, अत एवाह प्रज्ञत्यां-'ओसणं धम्मसन्नपभट्ठा' इति, ओसन्नमिति प्रायोग्रहणात् कचित्सम्यक्त्वं प्राप्यतेऽपीति भावः, गतः पञ्चम आरः॥ अथ षष्ठारक
उपक्रम्यते-'तीसे ण'मित्यादि, तस्यां समायां एकविंशत्या वर्षसहस्रैः प्रमिते काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैरेवं | ॥ गन्धस्पर्शपर्यवैर्यावत् परिहीयमाणः २, दुष्षमादुष्षमा नाम्ना समा कालः प्रतिपत्स्यते हे श्रमण! हे आयुष्मन् !, अथ
Jan Education
For Private
Person Use Only