________________
श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः
॥१६६॥
Seeeeeeeeeeee
पद्यन्त, गतश्चतुर्थोऽरकः, अथ पञ्चमः-'तीसे णमित्यादि, तस्या समायां एकया सागरोपमकोटाकोट्या द्विच-18/२वक्षस्कारे त्वारिंशद्वर्षसहस्रैरूनितया-ऊनीभूतया, अनयैव प्रत्येकमेकविंशतिसहस्रवर्षप्रमाणयोः पञ्चमषष्ठारकयोः पूरणात्, काले चतुर्थपञ्चव्यतिक्रान्तेऽनन्तैर्वर्णादिपर्यवैस्तथैव यावत् परिहाण्या परिहीयमाणा २, अत्र समये दुष्षमानाम्ना समा-कालः प्रति
मषष्ठारकाः
सू.३४-३५ पत्स्यते, वक्तुरपेक्षया भविष्यत्कालप्रयोगः, अथात्र भरतस्य स्वरूपं पृच्छन्नाह-तीसे णं भंते ! समाए भरह'इत्यादि, सर्व प्राग्व्याख्यातार्थ, नवरं भविष्यतीति प्रयोगः पृच्छकापेक्षया, अत्र भूमेर्बहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमानं २ नितरां हीनं ज्ञातव्यं, ननु 'खाणुबहुले कण्टकबहुले विसमबहुले' इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते, मैवं अविचारितचतुरं चिन्तयेः, यतोऽत्र बहुलशब्देन स्थाण्यादिबाहुल्यं चिन्तितं, न च षष्ठारक इवैकान्तिकत्वं, तेन च क्वचिद् गङ्गातटादौ आरामादौ वैतान्यगिरिनिकुञ्जादौ वा बहुसमरमणीयत्वादिकमुपलभ्यत एवेति न विरोधः, अथ तत्र मनुजस्वरूपं प्रष्टुकाम आह--'तीसे णमित्यादि, पूर्व व्याख्यातार्थमेतत्, नवरं बढयो रत्नयो-18 हस्ताः सप्तहस्तोच्छ्रयत्वात् तेषां, यद्यपि नामकोशे बद्धमुष्टिको हस्तो रनिरुक्तस्तथापि समयपरिभाषया पूर्ण इति, ते 8 मनुजा जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षेण सातिरेकं त्रिंशदधिकं वर्षशतमायुः पालयन्ति, अप्येकका नैरयिकगतिगामिनः
" ॥१६६॥ यावत् सर्वदुःखानामन्तं कुर्वन्ति, अत्र चान्तक्रिया चतुर्थारकजातपुरुषजातमपेक्ष्य तस्यैव पञ्चमसमायां सिद्ध्यमानत्वाजम्बूस्वामिन इव, न च संहरणं प्रतीत्येदं भावनीयम्, तथा च सति प्रथमषष्ठारकादावपि एतत्सूत्रपाठ उपलभ्येत
Jain Education
a
l
For Private Personal use only
ainelibrary.org