________________
'तीसे म' मित्यादि, तस्खा अनन्तरवर्णितायां समाया द्वाभ्यां सागरकोटाकोटीभ्यां-द्वे सागरोपमकोटाकोटी इत्येवं | प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवद्ज्ञेयं यावदनन्तैरुत्थानबलवीर्यपुरुषकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानो हीयमानोऽत्रान्तरे दुष्षमसुषमा नाम्ना समा-कालः प्रत्यपद्यत हे श्रमण ! हे आयुष्मन्!, अथ पूर्वारकवद्भरतस्वरूपं प्रष्टुमाह-'तीसे णमित्यादि, अथ तत्र मनुष्यस्वरूपप्रश्नमाह-तीसे ण'मित्यादि, इदं । च सूत्रद्वयमपि प्रायः पूर्वसूत्रसदृशगमकत्वात् सुगम, नवरं जघन्येनान्तर्मुहूर्त्तमायुस्तत्कालीनमनुष्या उत्कृष्टं पूर्वकोटिमायुः पालयन्ति, पालयित्वा च पश्चस्वपि गतिष्वतिथीभवन्ति, अथ पूर्वसमाप्तौ विशेषमाह--'तीसे ण' मित्यादि, तस्यां समायां त्रयो वंशा इव वंशाः-प्रवाहाः आवलिका इत्येकार्थाः न तु सन्तानरूपाः परम्पराः, परस्परं पितृपुत्र-16 |पौत्रप्रपौत्रादिव्यवहाराभावात्, समुदपद्यन्त, तद्यथा-अर्हवंशः चक्रवर्तिवंशः दशार्हाणां-बलदेववासुदेवानां वंशः, सायदत्रं दशारशब्देन द्वयोः कथनं तदुत्तरसूत्रबलादेव, अन्यथा दशाहंशब्देन वासुदेवा एव प्रतिपाद्या भवन्ति, 'अहयं |
च दसाराण'मिति वचनात्, यत्तु प्रतिवासुदेववंशो नोक्तस्तत्र प्रायोऽङ्गानुयायीन्युपाङ्गानीति स्थानाङ्गे वंशत्रयस्यैव । प्ररूपणात्, येन हेतुना तत्रैवं निर्देशस्तत्रायं वृद्धाम्नायः-प्रतिवासुदेवानां वासुदेववध्यत्वेन पुरुषोत्तमत्वाविवक्षणात्, एनमेवार्थ व्यनक्ति-तस्यां समायां योविंशतिस्तीर्थकराः एकादश चक्रवर्तिनः ऋषभभरतयोस्तृतीयारके भवनात् नव बलदेवा नव वासुदेवाः ज्येष्ठबन्धुत्वात् प्रथम बलदेवग्रहणं उपलक्षणात् प्रतिवासुदेववंशोऽपि ग्राह्यः, समुद
Jan Education Int
a
l
For Private Personal Use Only
Saw.jainelibrary.org
ION