________________
Jain Education Int
संग्रहः पूर्ववत्, अभीविना युते चन्द्रे परिनिर्वृतः - सिद्धिं गतः ६, ननु अस्मादेव विभागसूत्रबलादादिदेवस्य षट्क| ल्याणकी समापद्यमाना दुर्निवारेति चेत्, न, तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते, न ह्ययं षष्ठकल्याणकत्वेन भवता निरूप्यमानो राज्याभिषेकस्ता| दृशस्तेन वीरस्य गर्भापहार इव नायं कल्याणकं, अनन्तरोक्तलक्षणायोगात् न च तर्हि निरर्थकमस्य कल्याणकाधिकारे पठनमिति वाच्यं, प्रथमतीर्थेशराज्याभिषेकस्य जीतमिति शक्रेण क्रियमाणस्य देवकार्यत्वलक्षण साधर्म्येण समा| ननक्षत्रजाततया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात् तेन समाननक्षत्रजातत्वे सत्यपि कल्याणकत्वाभावेनानिय | तवक्तव्यतया क्वचिद्राज्याभिषेकस्याकथनेऽपि न दोषः, अत एव दशाश्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पे श्रीभद्रवा - हुखामिपादाः 'तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था," इति पञ्च| कल्याणकनक्षत्रप्रतिपादकमेव सूत्रं बबन्धिरे, न तु राज्याभिषेकनक्षत्राभिधायकमपीति, न च प्रस्तुतव्याख्यानस्यानागमिकत्वं भावनीयं, आचाराङ्गभावनाध्ययने श्रीवीर कल्याणकसूत्रस्यैवमेव व्याख्यातत्वात् । अथ भगवतः शरीरसम्पदं शरीरप्रमाणं च वर्णयन्नाह -
उसमे णं अरहा कोसलिए वज्जरिसनारायसंघयणे समचउरंससंठाणसंठिए पंच धणुसयाई उद्धं उच्चत्तेणं होत्था । उसमे णं अरहा ari yuसयसहस्साई कुमारवासमझे वसित्ता तेवट्ठि पुवसयसहस्साई महारज्जवासमज्झे वसित्ता तेसीइं पुइसय सहरलाई
For Private & Personal Use Only
jainelibrary.org