SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २वक्षस्कारे श्रीऋषभजन्मकल्याणकादिनक्षत्राणि सू. ३२ श्रीजम्बू 18 नन्दीसूत्रवृत्तिचूर्णिसिद्धदंडिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहितः सिद्धिगम उक्तः स कोशलापट्टपतीन् प्रतीत्याद्वीपशा- 18 वसातव्योऽयं पुण्डरीकगणधरादीन् प्रतीत्येति विशेषः, तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत्केवलज्ञानस्य न्तिचन्द्री- 18 पर्यायो यस्य स तथा, एवंविधे ऋषभे सति अन्तं-भवान्तमकार्षीद्-अकरोत् नार्वाक् कश्चिदपीति, यतो भगवदम्बा या वृत्तिः मरुदेवा प्रथमः सिद्धः, सा तु भगवत्केवलोत्पत्त्यनन्तरमन्तमुहूर्तेनैव सिद्धेति । अथ जन्मकल्याणकादिनक्षत्राण्याह॥१५५॥ उसमे णं अरहा पंचउत्तरासाढे अभीइछडे होत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वकंते उत्तरासाढाहिं जाए उत्तरासाढाहिं रायाभिसे पत्ते उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए उत्तरासाढाहिं अणंते जाव समुप्पण्णे, अभीइणा परिणिव्वुए (सूत्रं ३२) "उसभेण'मित्यादि, ऋषभोऽहन पञ्चसु-च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु उत्तराषाढानक्षत्रं चन्द्रेण भुज्यमानं यस्य स तथा अभिजिन्नक्षत्रं षष्ठे-निर्वाणलक्षणे वस्तुनि यस्य यद्वा अभिजिन्नक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु | यस्य स तथा, उक्तमेवार्थ भावयति, तद्यथा-उत्तराषाढाभिर्युते चन्द्रे इति शेषः, सूत्रे बहुवचनं प्राकृतशैल्या, एवमग्रेऽपि, च्युतः-सर्वार्थसिद्धनाम्नो महाविमानान्निर्गत इत्यर्थः, च्युत्वा गर्भ व्युत्क्रान्तः मरुदेवायाः कुक्षाववतीर्णवानित्यर्थः १, जातो-गर्भवासान्निष्क्रान्तः २, राज्याभिषेकं प्राप्तः ३, मुण्डो भूत्वा-अगारं मुक्त्वा अनगारितांसाधुतां प्रवजितः प्राप्त इत्यर्थः, पञ्चमी चात्र क्यन्लोपजन्या ४, अनन्तं यावत् केवलज्ञानं समुत्पन्नं ५, यावत्पद ॥१५५॥ For Private Persone Use Only Nirjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy