SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ अत्र यावत्पदसंग्राह्यः 'अप्पेगइया दोमासपरिआया' इत्यादिकः औपपातिकग्रन्थो विस्तरभयान्न लिखित इत्यक्सेयं, अथ ऋषभस्वामिनः केवलोत्पत्त्यनन्तरं भव्यानां कियता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह'अरहजो 'मित्यादि, ऋषभस्य द्विविधा अन्तं भवस्य कुर्वन्तीति अन्तकरा-मुक्तिगामिमस्तेषां भूमिः कालः कालस्य |चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः, तद्यथा-युगानि-पञ्चवर्षमानानि कालविशेषाः लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमवीनीति तत्साधाये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि साध्यसानलक्षणयाऽभेदप्रतिपत्त्या युगानि-पट्टपद्धतिपुरुषा इत्यर्थः तैःप्रमिता अन्तकरभूमियुगान्तकरभूमिरिति, पर्यायः-तीर्थकृतः केवलित्वकालस्तदपेक्षयाऽन्तकरभूमिः, कोऽर्थः-ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं प्रवृत्तमिति, तत्र युगान्तकरभूमिर्यावदसङ्ख्यातानि पुरुषा:-पट्टाधिरूढाने युगानि-पूर्वोक्तयुक्त्या पुरुषाः पुरुषयुगानि, समर्थपदत्वात् समासः, नैरन्तर्ये द्वितीया, ऋषभात् प्रभृति श्रीअजितदेवतीर्थ यावत् श्रीऋषभपट्टपरम्परारूढा असङ्ख्याताः सिद्धाः || न तावन्तं कालं मुक्तिगमनविरह इत्यर्थः, यस्तु आदित्ययशप्रभृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशलक्षप्रमितानां क्रमेण प्रथमतः सिद्धिगमनं तत एकस्य सर्वार्थसिद्धप्रस्तटगमनमित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य १ये त्वन्तरान्तरा मुक्तियायिनस्ते युगशब्दे नापेक्षिताः छद्मस्थगुरुशिष्यादिव्यवहितत्वेन (श्रीहीर० वृत्तौ)। २ लक्षणा हि द्विविधा साध्यवसाना सारोपाच 18 अत्र स्वाद्या प्राया। Jain Education a l For Private Personal use only Dilaw.jainelibrary.org.
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy