________________
पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधुच् वृद्धा'वितिवचनात् , स्तिमिता-स्वचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य कर्मधारयः, 'वेण्णओ'त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिकोपाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः, (उ० सू०१) अत्रालिखनं तु ग्रन्थगौरवमवादिति । तस्याःणमिति पूर्ववत् , मिथिलाया नगर्या बहिस्तात् उत्तरपौरस्त्वे-उत्तरापूर्वान्तरालरूपे दिग्भाग ईशानकोण इत्यर्थः, अत्र एकारो |मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा-'कयरे आगच्छइ दित्तरूवे' (उत्त०१२-६) इत्यादौ, 'अत्र' अस्मिन्नुत्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत् , चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च संज्ञाशब्द| त्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराच्चैत्यमुच्यते, तच्चेह व्यन्तरायतनं द्रष्टव्यं,
न तु भगवतामहतामायतनं, तस्य च चिरातीतमित्यादिवर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽवसेवा, | (उ० सू०२) तस्यां मिथिलायां नगर्या जितशत्रुर्नाम राजा, तस्य सकलस्त्रीगुणधारिणी धारिणी नामा देवी, कृता. भिषेका पट्टराज्ञी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'वण्णओं'त्ति अत्र राज्ञो 'महयाहिमवन्तमहन्ते त्यादिको राश्याश्च 'सुकुमालपाणिपाये'त्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः (उ० सू०६-७)। अथात्र यज्जातं तदाह'तेणं कालेणं तेणं समएणंति पूर्ववत् , स्वामीति समर्थविशेषणं विशेष्यमाक्षिपति तेनात्र श्रीमन्महावीरः समक्सत इत्यर्थः, आत्यन्तिकं स्वामित्वं तस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृख्या समन्वितो
cिeceicersestaelesesesesectic
For Private & Personal Use Only
wwilsinelibrary.org
JainEducation