________________
प्रस्ताव
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
-
Catekesesesese
भज श्रीजिनाज्ञा सबहुमान, ततस्तवापि युक्तियुक्तं सर्वेषामर्हन्निक्षेपाणां नमस्कार्यत्वमित्यर्स प्रसङ्गेन, अब प्रकृतं प्रस्तुमः, उक्तः सूत्रस्पर्भिकनिर्युक्त्यनुगमः, तदेवं मङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकमिसबनुगमनया उपदर्शिताः, एवं प्रतिसूर्य स्खयमनुसरणीयं । अथ यस्यां नगर्या यस्मिन्नुद्याने बथा भगवान् गौतमस्वामी भग-| वतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स तथोपोद्घातमुपदिदर्शविपुरिदमाह-'ते' ति, अख व्याख्या-ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यदा भगवान् विहरति म तस्मिन्निति 'काले' वर्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापि णमिति वाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीया आपत्वात् , यदाहुः श्रीहेमसूरिपादाः, स्वप्राकृतलक्षणे-"आर्षे तृतीयापि दृश्यते-तेणं कालेणं तेणं समएणं, तस्मिन् काले तस्मिन् | समये इत्यर्थः, (सि०८-३-१३७)” 'तेणं समएणं'ति समयोऽवसरवाची, तथाच लोके वक्तारो-नाद्याप्येतस्य समयो | वर्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतां जम्बूद्वीपवक्तव्वतामचकथत् तस्मिन् | समये मिथिला नाम नगरी अभवत् , नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ?, उच्यते, वश्यमाणवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत्, नतु विवक्षितप्रकरणकर्तः प्रकरणविधानकाले, एतदपि कथमवसेयमिति चेत्, उच्यते, अयं चावसर्पिणीकालः, अस्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्या वर्णकमाह-रिद्धत्थिमियसमिद्ध'त्ति ऋखा-भवनैः
lainelibrary.org
Jan Education
For Private Personel Use Only