SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ यथा-"संविनिष्ठैव सर्वापि, विषयाणां व्यवस्थितिः। संवेदनञ्च नामादिविकलं नानुभूयते॥१॥ तथाहि-घटोऽयमिति नामैतत् , पृथुबुनादि चाकृतिः।मृद्रव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥२॥ तत्रापिनाम नाकारमाकारो नाम नो विना। तौ विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥३॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे ॥४॥” इति, तदेवं सर्व वस्तु नामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावार्हन्तश्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति । अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति-भवतु नाम वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नाम्नो नमस्कार्यत्वं, स्थापनायास्तु भावविप्रकृष्टत्वेन तत्कथमिति चेत्, | उच्यते, तस्या अपि जिनबुझ्युत्पादकत्वादिभिर्हेतुभिः सुतरां भावासन्नत्वान्नमस्कार्यत्वमुपपन्नमिति मा मुग्ध मुधाऽनन्त-॥४॥ तीर्थकृदनुज्ञातस्थापनाऽपलापपापपङ्किलतां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनतां जगदतिशा-|| ॥ यिनीमर्जुनसन्तर्जनी धनुर्वेदसिद्धिं, तथा च प्रतिक्रमणादौ वन्दनकप्रदाने रजोहरणादिकं गुरुचरणतया व्यपदिशसि । स्थापनानिक्षेपं चापलपसि अहो वदव्याघातस्तव, अपिच-चित्रार्पितनिजजनकवदनमुपानयां प्रहरते नराय कुप्यसि चित्रन्यस्तकुम्भस्तनीं निध्यायन् दृष्यसि मिथ्यावादं कुर्वस्तथापि न तृप्यसि, किमपराद्धं तव पुरुषधुरन्धरस्थापनया, तथा वदामि सुहृद्भावेन-भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम ४ स्कुर्वतः द्रव्यनृपं च भावी राजेतिबुद्ध्या उपचरतश्च तवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिट्टिभमान || Jan Education For Private Personel Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy