SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥१५२॥ Jain Education Inte कतिर्यग्नरामरस्य पञ्चास्तिकायात्मक क्षेत्रखण्डस्य उपलक्षणाद् लोकस्य अलोकस्यापि - नभः प्रदेशमात्रात्मकक्षेत्रविशेषस्य |पर्यायान - क्रमभावस्वरूपविशेषान् जानाति केवलज्ञानेन पश्यति केवलदर्शनेन, पर्यायानित्युक्ते द्वयमपि ग्राह्यं, नहि पर्याया द्रव्यवियुता भवेयुर्द्रव्यं वा पर्यायवियुतं, तेनाधेयमाधारमाक्षिपतीति, अन्यथा आधेयत्वस्यैवानुपपत्तेः, यथाssकाशस्य, न हि आकाशं क्वाप्यवतिष्ठते तस्याधारमात्ररूपस्यैव सिद्धान्ते भणनात्, अथवा सामान्यत उत्कं पर्यायाणां ज्ञानं व्यक्त्या निरूपयन्नाह - तद्यथा - ' आगर्ति' यतः स्थानादागच्छन्ति विवक्षितं स्थानं जीवाः 'गतिं' यत्र मृत्वोत्पद्यन्ते 'स्थितिं' कायस्थितिभवस्थितिरूपां व्यवनं' देवलोकाद्देवानां मनुष्यतिर्यक्ष्ववतरणं 'उपपातं ' देवनारकजम्मस्थानं भुक्तं - अशनादि कृतं - चौर्यादि प्रतिसेवितं मैथुनादि आविः कर्म - प्रकटकार्य रहःकर्मप्रच्छन्नकृतं, 'तं तं काले 'ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् २ काले, वीप्सायां द्विर्वचनं, मनोवचः कायान् | योगान् - करणत्रयव्यापारान् एवमादीन्, जीवानामपि सर्वभावान्, जीवधर्मानित्यर्थः, अजीवानामपि सर्वभावान्रूपादिधर्मान् मोक्षमार्गस्य- रत्नत्रयरूपस्य विशुद्धतरकान् प्रकर्षकोटिप्राप्तान् कर्मक्षयहेतून् भावान् - ज्ञानाचारादीम् जानन् पश्यन् विचरतीति गम्यं, कथं च जानन् पश्यन् विचरतीत्याह - एषः - अनन्तरं वक्ष्यमाणो धर्मः खलु अवधारणे मोक्षमार्गः, सिद्धिसाधकत्वेन मम-देशकस्यान्येषां च श्रोतॄणां हितं कल्याणं पथ्यभोजनवदित्यर्थः सुखं-अनु कुलधेयं पिपासोः शीतलजलपानवत् निःश्रेयसं - मोक्षस्तत्करः-उक्तानां हितादीनां कारक इति, सर्वदुःखधिमोक्षण For Private & Personal Use Only २वक्षस्कारे श्री ऋषभप्रभोः श्रा मण्यादि सू. ३१ ॥१५२॥ ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy