SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Beeeeeeeeeeeeeeeees अत एव निर्विशेष विशेषाणां ग्रहो दर्शन'मित्युक्तमनन्तरोक्तग्रन्थे, कोऽर्थः -ज्ञाने प्रधानभावेन विशेषा गौणभावेन सामान्य दर्शने प्रधानभावेन सामान्यं गौणभावेन विशेषा इति विशेषः । समुत्पन्नं-सम्यक्-क्षायिकत्वेनावरणदेशस्याप्यभावात् उत्पन्नं, प्रादुर्भूतमित्यर्थः, उत्पन्न केवलस्य यद्भगवतः स्वरूपं तत्प्रकटयति-जिणे जाए'इत्यादि, जिनोरागादिजेता, केवलं-श्रुतज्ञानाद्यसहायकं ज्ञानमस्यास्तीति केवली, अत एव सर्वज्ञो-विशेषांशपुरस्कारेण सर्वज्ञाता | सर्वदर्शी-सामान्यांशपुरस्कारेण सर्वज्ञाता, नन्वहतां केवलज्ञानकेवलदर्शनावरणयोः क्षीणमोहान्त्यसमय एव क्षीण| त्वेन युगपदुत्पत्तिकत्वेनोपयोगस्वभावात् क्रमप्रवृत्तौ च सिद्धायां 'सबन्नू सचदरिसी' इति सूत्रं यथा ज्ञानप्राथम्य-19 सूचकमुपन्यस्तं तथा सबदरिसी सबन्न इत्येवं दर्शनप्राथम्यसूचकं किं न ?, तुल्यन्यायत्वात्, नैवं, 'सबाओ लद्धीओ सागारोवउत्तस्स उववजंति, णो अणागारोवउत्तस्स' [सर्वा लब्धयः साकारोपयुक्तस्योत्पद्यन्ते नानाकारोपयुक्तस्य ] इत्यागमादुत्पत्तिक्रमेण सर्वदा जिनानां प्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीति ज्ञापनार्थत्वादित्थमुपन्यासस्येति, छद्मस्थानां तु प्रथमे समये दर्शनं द्वितीये ज्ञानमिति प्रसङ्गाद् बोध्यं । उक्तविशेषणद्वयमेव विशिनष्टि-सनैरयि १ अवसरवाचकतया ज्ञेयोऽत्रायं समयशब्दः, छप्रस्थानां समयेनोपयोगाभावात् , अत एव 'चयमाणे न याणई' त्यागमः, अत एव च 'जाणइ पासई'| त्यवधिव्याख्यायां नन्द्यामपि अवसरपरतयैव समयशब्दव्याख्याऽविरुद्धा, स्पष्टं च स्थानाझे दशमस्थानादौ व्याख्याप्रज्ञप्तौ च समयस्याविषयवं छमस्थस्य द्रुमपत्रीये 'समयं गोयम 1 मा पमायए' इत्यत्र च । Jain Education a l For Private para Use Only www.ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy