SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा"न्तिचन्द्री - या वृत्तिः ॥ १५१ ॥ Jain Education In णमार्गसम्बन्धिनैव सुचरितेन - सदाचरणेन फलं - प्रक्रमान्मुक्तिलक्षणं यस्मात् एवंविधो यो निर्वाणमार्गः - असाधारणरत्नत्रयरूपस्तेनात्मानं भावयतः केवलवरज्ञानदर्शनं समुत्पन्नमित्यन्वयः, तत्रानन्तमविनाशित्वात् अनुत्तरं सर्वो| तमत्वात् निर्व्याघातं कटकुड्यादिभिरप्रतिहतत्वात् निरावरणं क्षायिकत्वात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांश कलितत्वात् पूर्णचन्द्रवत् केवलं - असहायं 'णटुंमि उ छाउमत्थिए णाणे' [ नष्टे छाद्मस्थिके ज्ञान एव ] इति वचनात् परं प्रधानं ज्ञानं च दर्शनं चेति समाहारद्वन्द्वे एकवद्भावः ततः पूर्वपदाभ्यां कर्मधारयः, तत्र सामान्यविशेषोभयात्मके ज्ञेयवस्तुनि ज्ञानं विशेषावबोधरूपं दर्शनं सामान्यावबोधरूपमिति, अत्रायमाशयः - दूरादेव तालतमालादिकं तरुनिकरं विशिष्टव्यक्तिरूपतयाऽनवधारितमवलोकयतः पुरुषस्य सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तद्दर्शनं 'निर्विशेषं विशेषाणां ग्रहो दर्शन' मिति वचनात्, यत्पुनस्तस्यैव प्रत्यासीदतस्ता| लतमालादिव्यक्तिरूपतयाऽवधारितं तमेव तरुसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुटं रूपमाभाति तज्ज्ञानं, ननु भवतु नाम इत्थमनुभवसिद्धे ज्ञाने छद्मस्थानां विशेषग्राहकता दर्शने च सामान्यग्राहकता, परं केवलिनो ज्ञानक्षणे सामान्यांशाग्रहणाद्दर्शनेन च विशेषांशग्रहणाभावाद् द्वयोरपि सर्वार्थविषयत्वं विरुध्यते, उच्यते, ज्ञानक्षणे हि केवलिनां ज्ञाने यावद्विशेषान् गृह्णति सति सामान्यं प्रतिभातमेव, अशेषविशेषराशिरूपत्वात् सामान्यस्य, दर्शनक्षणे च दर्शने सामान्यं गृह्णति सति यावद्विशेषाः प्रतिभाता एव, विशेषानालिङ्गितस्य सामान्यस्याभावात्, For Private & Personal Use Only २वक्षस्कारे श्रीऋषभप्रभोः श्रामण्यादि सू. ३१ ॥१५२॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy