SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ न्तर्य, भेषजादित्वात् स्वार्थे यण प्रत्ययस्ततः स्त्रीत्वविवक्षायां डीप्रत्यये आन्तरी आन्तवैवान्तरिका ध्यानस्यान्तरिकाध्या| नान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्थानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य, कोऽर्थः -पृथक्त्ववितर्क सविचारं १ एकत्ववितर्कमविचारं २ सूक्ष्मक्रियमप्रतिपाति ३ म्युच्छिन्नक्रियमनिवर्ति ४ इति चतुश्चरणात्मकस्य शुक्लध्यानस्य चरणद्वये ध्याते चरमचरणद्वयमप्रतिपन्नस्येति, योगनिरोधरूपध्यानस्य चतुर्दशगुणस्थानवर्तिनि केवलिन्येव सम्भवात् , फाल्गुनबहुलस्यैकादश्यां पूर्वाह्नकालरूपो यः समयः-अवसरस्तस्मिन् अष्टमेन भक्तेन-आगमभाषयोपवासत्रयलक्षणेनापानकेन-जलवर्जितेनोत्तराषाढानक्षत्रे चन्द्रेण सहेति मम्यं योगमुपागते सति, उभयत्र णं वाक्यालङ्कारे, अथवा आर्षत्वात् सप्तम्यर्थे तृतीया, अनुत्तरेणेति-क्षपकश्रेणिप्रतिपन्नत्वेन केबलासन्नत्वेन परमविशुद्धिपदप्राप्तत्वेन न विद्यते IS| उत्तर-प्रधानमग्रवर्ति वा छानस्थिकज्ञानं यस्मात्तसथा, तेन ज्ञानेन-तत्त्वावबोधरूपेण, एवं यावच्छब्दात दर्शनेन । |क्षायिकभावापन्नेन सम्यक्त्वेन चारित्रेण-विरतिपरिणामरूपेण क्षायिकभावापन्नेनैव 'तपसे'ति व्यक्तं 'बलेन' संहननोत्थप्राणेन 'वीर्येण मानसोत्साहेन 'आलयेन' निर्दोषवसत्या 'विहारेण' गोचरचर्यादिहिण्डनलक्षणेन 'भावनया| महाव्रतसम्बन्धिन्या मनोगुप्त्यादिरूपया पदार्थानामनित्यत्वादिचिन्तनरूपया वा 'क्षान्त्या' क्रोधनिग्रहेण 'गुस्या' प्राग्व्याख्यातस्वरूपया 'मुक्त्या' निर्लोभतया 'तुष्या' इच्छानिवृत्त्या 'मार्जवेन' मायानिग्रहेण 'माईवेन' माननिग्रहेण । 'लाघवेन' क्रियासु दक्षभावेन, भावे कप्रत्ययविधानात, सोपचित-सोपचयं पुष्टमितियावत् एतादृशेन प्रस्तावान्निवों- Jan Education IN For Private Personel Use Only K arejainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy