________________
मोक्षण क्षेपे मोक्षयति मोचयतीति] इति व्यक्तं, परमसुर्ख-आत्यन्तिकसुखं समापयतीति व्युत्पत्तिषशात् परमसुखसमाननः 'समापेः समाणः' (श्रीसिद्ध० अ० पा०) इति प्राकृतसूत्रेण समानादेशे अनटि प्रत्यये रूपसिद्धिा, निःश्रेयसेत्यत्र यकारलोपः प्राकृतत्वात्, भविष्यतीति, अथ उत्पन्नकेवलज्ञानो भगवान् यथा धर्म प्रादुश्चकार तथा आह-तते ण'मित्यादि, ततः स भगवान् श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च पञ्च महाव्रतानि-सर्वप्राणातिपातविरमणादीमि सभावनाकानि-ईसिमित्यादिस्वभावनोपेतानि षट् च जीवविकायान्-पृथिव्यादित्रसान्तान् इत्येवंरूपं धर्म उपदिशन् विहरतीति सम्बन्धः, यच्च धर्म प्रक्रान्तव्ये षड्जीवनिकायकथनमुपक्रान्तं तज्जीवपरिज्ञानमन्तरेण प्रतपालनासम्भव इति ज्ञापनार्थ, नन्वयं नियमः प्रथमव्रते सम्भवेत् मृषावारविरमणादीनां तु भाषाविभागादिज्ञानाधीनत्वात् न सम्भ-18 | वेदिति, उच्यते, शेषव्रतानामपि प्राणातिपातविरमणव्रतस्य रक्षकत्वेन नियुक्तत्वात् , महावनस्य वृत्तिवृक्षवत्, तथाहि
मृषाभाषामभाषमाणो ह्यभ्याख्यानादिविरतो न कुलवध्वादीन् अदत्तमनाददानो धनस्वामिनं सचित्तजलफलादिकं च || मैथुनविरतो नवलक्षपञ्चेन्द्रियादीन् परिग्रहविरतः शुक्तिकस्तुरीमृगादींश्च नातिपातयेदिति, अथैतदेव किञ्चिवक्त्या | विवृणोति, तद्यथा-पृथिवीकायिकान् जीवान् उपदिशन् विहरतीति सम्बन्धः, लाघवार्थकत्वेन सूत्रप्रवृत्तेर्देशग्रहणोत् पूर्णोऽप्यालापको वाच्यः, स चायं-'आउक्काइए तेउक्काइए वाउक्काइए वणस्सइकाइए तसकाइए'त्ति व्यक्तं, तथा पञ्च महाव्रतानि सभावनाकानि 'भावनागमेन' श्रीआचाराङ्गाद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणित
00000000000000000000029
Jain Education in
For Private Personel Use Only
MIw.jainelibrary.org