________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१४९॥
Jain Education Inte
| संसारशब्दव्यपदेश्यः, यदूचे - " अयं ममेति संसारो, नाहं न मम निर्वृतिः । चतुर्भिरक्षरैर्बन्धः, पञ्चभिः परमं पदम् ॥ १ ॥” | स च द्रव्यतः- द्रव्यं प्रतीत्य "स्यक्लोपात् पञ्चमी”, एवं क्षेत्रत इत्याद्यपि, तत्र द्रव्यत इति व्याख्येयपदपरामर्शार्थ तेन न पौनरुक्त्यं, इह लोके खलुर्वाक्यालङ्कारे माता मम पिता ममेत्यादि, मावत्करणात् 'भज्जा मे मे भूआ पुत्ता | मे णत्ता मे सुहा मे सहिसयण'त्ति भार्यापुत्रौ प्रसिद्धौ धूआ-पुत्री नप्ता - पुत्रपुत्रः स्नुषा - पुत्रभार्या सखा - मित्रं स्वजन:- पितृव्यादिः सग्रन्थः - स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयोदर्शनेन परिचितः, एषां च जीवपर्यायत्वाद् द्रव्यत्वं कथञ्चित् पर्यायपर्यायिणोरभेदोपचारात्, हिरण्यं मे सुवर्ण मे, यावच्छब्दात् 'कंसं मे दूसं मे धणं मे' इत्यादि प्रकरणं उपकरणं-उक्तव्यतिरिक्तं, अयं च यावत्पदसंग्रहोऽदृष्टमूलकत्वेन मयैव सिद्धान्तशैल्या प्राकृतीकृत्य स्थानाशून्यतार्थं लिखितोऽस्ति तेन सैद्धान्तिकैरेतन्मूलपाठगवेषणायामुद्यमः कार्यः, प्रकारान्तरेण द्रव्य| प्रतिबन्धमाह - अथवेति - प्रकारान्तरे, उक्तरीत्या प्रतिव्यक्ति कथनस्याशक्यत्वेन सङ्क्षेपत उच्यते इति शेषः, सच्चित्तेद्विपदादौ अचित्ते - हिरण्यादौ मिश्र - हिरण्यालङ्कृतद्विपदादौ, द्रव्यजाते- द्रव्यप्रकारे वा समुच्चये स - प्रतिबन्धस्तस्य --- | प्रभोरेवमिति - ममेदमित्याशयबन्धेन न भवति 'खित्तओ' इत्यादि प्रायो व्यक्तमिदं, नवरं क्षेत्रं - धान्यजन्मभूमिः खल-धान्यमेलनपचनादिस्थंडिलं एवं-उक्तरीत्या आशयबन्धस्तस्य प्रभोर्न भवति, 'कालओ' इत्यादि, कालतः लोके सप्तप्राणमाने लवे-सप्तस्तोकमाने मुहूर्त्ते - सप्तसप्ततिलवमाने अहोरात्रे - त्रिंशन्मुहूर्त्तमाने पक्षे - पश्चदशाहोरात्रमाने मासे
For Private & Personal Use Only
२वक्षस्कारे श्रीऋषभ| प्रभोः श्रा
मण्यादि
सू. ३१
॥१४९॥
www.jainelibrary.org