SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ न तु शठवद्दर्शितावहित्थ इति, कूर्मवद् गुप्तेन्द्रियः, कच्छपो हि कन्धरापादलक्षणावयवपञ्चकेन गुप्तो भवति एवमयमपीन्द्रियपञ्चकेन, पूर्वोक्तं गुप्तेन्द्रियत्वं दृष्टान्तद्वारा सुबोधमिति न पौनरुक्त्यं, पुष्करपत्रमिव निरुपलेपः, पङ्कजलकल्पस्वजन विषयस्नेहरहित इत्यर्थः, गगनमिव निरालम्बनः - कुलग्रामनगरादिनिश्रारहितः अनिल इव-वायुरिव निरालयोवसतिप्रतिबन्धवन्ध्यः, यथोचितं सततविहारित्वात्, अयमंत्राशयः- यथा वायुः सर्वत्र संचरिष्णुत्वेनानियतवासी तथा प्रभुरपीति, चन्द्र इव सौम्यदर्शनः - अरौद्रमूर्त्तिः, सूर इव तेजस्वी परतीर्थिकतेजोऽपहारित्वात्, विहगः - पक्षी स इवा| प्रतिबद्धतया गच्छतीत्येवंशीलः स तथा, किमुक्तं भवति ? - स्थलचरजलचरौ स्थलजलनिश्रितगमनौ न तथा विहगः स्वावयवभूतपक्षसापेक्षगामित्वात् तेन विहगवदयं प्रभुरनेकेष्वनार्यदेशेषु कर्मक्षय साहायककारिषु परानपेक्षः स्वशक्त्या विहरतीति, सागर इव गम्भीरः - परैरलब्धमध्यो निरुपमज्ञानवत्त्वेऽपि रहः कृतपरदुश्चरितानामपरिस्रावित्वात् हर्षशोकादिकारणसद्भावेऽपि तद्विकारादर्शनाद्वा, मन्दर इव अकम्पः, स्वप्रतिज्ञातेषु तपः संयमेषु दृढाशयत्वेन प्रवर्त्तनात् पृथ्वीव सर्वान् स्पर्शाननुकूलेतरान् विषहते यः स तथा जीव इवाप्रतिहतगतिः - अस्खलितगतिः, यथा हि जीवस्य कटकुव्यादिभिर्न गतिः प्रतिहन्यते तथा केनापि परपाखण्डिना आर्यानार्यदेशेषु सञ्चरतः प्रभोरपि, अथ मा भवन्तु दुर्द्धर्षस्य प्रभोः परे गतिविघातकाः परं स्वप्रतिबन्धेनापि गतिर्विहन्यते इत्याह'णत्थि ण' मित्यादि, नास्ति तस्य भगवतः कुत्रचित् प्रतिबन्धः - अयं ममास्याहमित्याशयबन्धरूपः, अयमेव हि Jain Education ional For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy