SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥१४८॥ Jain Education Int च, कार्यसमितः - प्रशस्त काय व्यापारवान् मनोगुप्तः - अकुशलमनोयोगरोधकः यावत्पदात् 'वयगुत्ते कायगुत्ते गुत्ते गु| सिंदिए 'ति वाग्गुप्तः - अकुशलवाग्योगनिरोधकः काय गुप्तः - अकुशलकाय योगनिरोधकः, एवं च सत्प्रवृत्तिरूपाः समित| योऽसत्प्रवृत्तिनिरोधरूपास्तु गुप्तय इति, अत एव गुप्तः सर्वथा संवृतत्वात्, तत्रैव विशेषणद्वारा हेतुमाह – गुप्तेन्द्रियः | शब्दादिष्विन्द्रियार्थेष्वरक्तद्विष्टतया प्रवर्त्तनात्, तथा गुप्तिभिर्वसत्यादिभिर्यत्नपूर्वकं रक्षितं गुप्तं ब्रह्म-मैथुनविरति - रूपं चरतीत्येवंशीलः, तथा अक्रोधः यावत्करणात् 'अमाणे अमाए' इति पदद्वयं ग्राह्यं, व्यक्तं च, अलोभः, अत्र सर्वत्र स्वल्पार्थे नञ् ग्राह्यः तेन स्वल्पक्रोधादिभिरित्यर्थः, अन्यथा सूक्ष्मसम्परायगुणस्थानकावधि लोभोदयस्योपशान्तमोहावधि च चतुर्णामपि क्रोधादीनां सत्तायाः सम्भवे तदभावासम्भवात् कुत एवंविध इत्याह- श्रान्तो भवभ्रमणतः | प्रस्वान्तः - प्रकृष्टचित्तः उपसर्गाद्यापातेऽपि धीरचित्तत्त्वात् उपशान्त इति व्यक्तं अत एव परिनिर्वृतः सकलसन्ता| पवर्जितत्वात्, छिन्नश्रोताः - छिन्नसंसारप्रवाहः छिन्नशोको वा निरुपलेपो- द्रव्यभावमलरहितः, अथ सोपमानैश्चतुर्द| शविशेषणैर्भगवन्तं विशिनष्टि - 'शङ्खमिवे' त्यत्र प्राकृतशैल्या क्लीबभावस्तेन शङ्ख इव निर्गतमञ्जनमिवाञ्जनं - कर्म जीवमालिन्यहेतुत्वात् यस्मात् स तथा, जात्यकनकमिव - षोडशवर्णककाञ्चनमिव जातं रूपं स्वरूपं रागादिकुद्रव्य विरहाद्यस्य स तथा, आदर्श-दर्पणे प्रतिभागः - प्रतिविम्बः स इव प्रकटभावः, अयमर्थः- आदर्श प्रतिबिम्बितस्य वस्तुनो यथा यथावदुपलभ्यमानस्वभावा नयनमुखादिधर्मा उपलभ्यन्ते तथा स्वामिन्यपि यथास्थितो मनःपरिणाम उपलभ्यते, For Private & Personal Use Only २वक्षस्कारे श्रीऋषभप्रभोः श्रा मण्यादि सू. ३१ ॥१४८॥ ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy