SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern णासमिए आयाणभंडमत्त निक्खेवणासमिए उच्चारपासवणखेल जल्लसिंघाण' त्ति, अग्रेतनपदं तु साक्षादेवास्ति, भाषायांनिरवंद्यभाषणे समितः एषणायां- पिण्डविशुद्धौ आधाकर्मादिदोषरहितभिक्षाग्रहणे समितः भाण्डमात्रस्य - उपकरण| मात्रस्योपादाने - ग्रहणे निक्षेपणायां च - मोचने समितः प्रत्युपेक्षणादिकसुन्दरचेष्टया सहित इत्यर्थः, सूत्रे व्यस्ततया पदनि|र्देश आर्षत्वात्, अथवा आदानेन सह भाण्डमात्रस्य निक्षेपणेति समासयोजना, उच्चारः - पुरीषं प्रश्रवणं - मूत्रं खेल :- कफः सिंघानो - नासिकामलः जल्लः- शरीरमलः एषां परि-सर्वैः प्रकारैः स्थापनं- अपुनर्ग्रहणतया न्यासः परित्याग इत्यर्थः तत्र भवा पारिष्ठापनिकी, तत्र सुन्दर चेष्टा क्रिया इत्यर्थः, तस्यां समितः - उपयुक्तः, "प्रत्यये ङीर्नवा ” (श्रीसिद्ध. अ. ८पा. ३ सू. ३१) इति प्राकृतसूत्रेण स्त्रीलक्षणो ङीप्रत्ययो विकल्पनीयः, यथा 'ईरिया बहिआए विराहृणाए' इत्यत्र, एतच्चान्त्य समितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डनार्थमुक्तमिति बादरेक्षिकया प्रतिभाति, सूक्ष्मेक्षिकया तु यथा वस्त्रेपणाया | असम्भवेऽपि सर्वथा एषणासमितेर्भगवतोऽसम्भवो न, आहारादौ तस्या उपयोगात्, तथाऽन्यभाण्डासम्भवेऽपि देवदूष्यसम्बन्धिनी चतुर्थसमितिर्भवत्येव, दृश्यते च श्रीवीरस्य द्विजदाने देवदूप्यादाननिक्षेपौ, एवं श्लेष्माद्यभावेऽपि नीहारप्रवृत्तौ पञ्चमीसमितिरपीत्यलं प्रसङ्गेन, तथा मनःसमितः - कुशलमनोयोगप्रवर्तकः वचः समितः - कुशलवाग्योगप्रवर्तकः, | भाषासमित इत्युक्तेऽपि यद्वचःसमित इत्युक्तं तद् द्वितीयसमिताबत्यादरनिरूपणार्थं करणत्रयशुद्धिसूत्रे सङ्ख्यापूरणार्थं १ सूत्रपाठस्य गृहस्थानामपि पारिष्ठापनिकाकारस्येवाखण्डतैव युकेति न दोषः ( इति हीर० वृत्तौ ) । For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy