________________
श्रीजम्बू
द्वापशा- न्तिचन्द्रीया वृत्तिः ॥१४४॥
eeeeee
दीक्षा
पौरजबरवेण च प्रतिबुद्ध्यमानः २-सावधानीभवन् २ कन्दराणि-दर्यः गिरीणां 'विवरकुहराणि' गुहाः पर्वतान्त- २वक्षस्कारे राणि च गिरिवराः-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रती- श्रीऋषमतानि शृङ्गाटकं-त्रिकोणस्थानं त्रिक-यत्र रथ्यात्रयं मिलति चतुष्कं यत्र रथ्याचतुष्टयं चत्वरं-बहुमार्गा आरामाः-पुष्पजातिप्रधानवनखण्डाः उद्यानानि-पुष्पादिमद्वक्षयुक्तानि काननानि-नगरासन्नानि सभा-आस्थायिकाः प्रपा-जलदानस्थानं एतेषां ये प्रदेशदेशरूपा भागास्तान , तत्र प्रदेशा-लघुतरा भागा देशास्तु लघवः प्रतिश्रुतः-प्रतिशब्दास्तेषां शतसहस्राणि-लक्षास्तैः सङ्कलान् कुर्वन् , अत्र बहुवचनार्थे एकवचनं प्राकृतत्वात् , हयानां हेषितेन-हेषारवरूपेण | हस्तिनां गुलगुलायितरूपेण, रथानां घनघनायितेन-घणघणायितरूपेण शब्देन मिश्रितेन जनस्य महता कलकलरवेणी आनन्दशब्दत्वान्मधुरेण-अरेण पूरयन् २, अत्र नभ इति उत्तरग्रन्थवर्त्तिना पदेन योगः, सुगन्धानां वरकुसुमानां चूर्णानां च उद्वेधः-उर्ध्वगतो वासरेणुः-वासकं रजस्तेन कपिलं नभः कुर्वन् कालागुरु:-कृष्णागुरुः कुंदुरुक्कः-चीडाभिधं द्रव्यं तुरुष्क-सिल्हकं धूपश्च-दशाङ्गादिर्गन्धद्रव्यसंयोगजः एषां निवहेन जीवलोकं वासयन्निव, अत्रोत्प्रेक्षा तु जीवलोकवासनस्यावास्तवत्वेन, सर्वतः क्षुभितानि-साश्चर्यतया ससम्भ्रमाणि चक्रवालानि-जनमण्डलानि यत्र निर्गमे तद्यथा ॥१४४॥ भवतीत्येवं निर्गच्छतीति, प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोल:-शब्दः स बहुलो यत्र तत्तथा, एवंभूतं नभः कुर्वन् , विशेषणानां
Jan Education
For Private & Personal Use Only
O
ww.jainelibrary.org