________________
श्रीजम्बू. २५
व्यस्ततया निपातः प्राकृतत्वादिति, निर्गत्य च यत्रागच्छति तदाह - 'आसि' इत्यादि, आसिक्तं - ईषत् सिक्तं गन्धोदकादिना प्रमार्जितं कचवरशोधनेन सिक्तं- तेनैव विशेषतोऽत एवं शुचिकं पवित्रं पुष्पैर्य उपचारः -पूजा तेन कलितंयुक्तं, इदं च विशेषणं प्रमार्जितासितसितशुचिकमित्येवं दृश्यं, प्रमार्जिताद्यनन्तरभावित्वाच्छुचिकत्वस्य, एवंविधं सिद्धावन विपुलराजमार्गं कुर्वन्, तथा हयगजरथानां 'पहकरे' त्ति देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः, तथा पदातीनां चटकरेण वृन्देन च मन्दं २ - यथा भवति तथा, क्रियाविशेषणं यथा हयादिसेना पाश्चात्या समेति तथा २ बहुतरबहुतमकमित्यर्थः, उद्धतरेणुकं - ऊर्ध्वगतरजस्कं कुर्वन्, यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपस्तत्रैवोपागच्छतीति । उपागत्य यत्करोति तदाह-उपागत्याशोकवरपादपस्याधः शिबिकां स्थापयति, स्थापयित्वा च शिविकायाः प्रत्यवरोहति, अवतरतीत्यर्थः, प्रत्यवरुह्य च स्वयमेवाभरणालङ्कारान्, तत्राभरणानि - मुकुटानीति (दीनि ) अलङ्कारान्-वस्त्रादीन् सूत्रे एकवचनं प्राकृतत्वात्, आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वकरणाद्वा, अव| मुञ्चति -त्यजति, कुलमहत्तरिकाया हंसलक्षणपटे अवमुच्यं च स्वयमेव चतसृभिः 'अट्ठाहिं' ति मुष्टिभिः करणभूता| भिर्लुश्चनीय केशानां पञ्चमभागलुश्चिकाभिरित्यर्थः, लोचं करोति, अपराङ्गालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशमोचनं, तीर्थकृतां पञ्चमुष्टिलोचसम्भवेऽपि अस्य भगवतश्चतुर्मुष्टिकलोचगोचरः श्रीहेमाचार्यकृतऋषभचरित्राद्यभिप्रायोऽयं - 'प्रथममेकया मुष्ट्या स्मश्रुकूर्च्चयोर्लोचे तिसृभिश्च शिरोलोचे
For Private & Personal Use Only
www.jainelibrary.org