________________
Jain Education Intel Co
| लगुलाइ अरहघणघणाइयसद्दमीसिएणं महया कलकलरवेणं जणस्स महुरेण पूरयंतो सुगंधवरकुसुमचुण्णउविद्धवासरे| णुकविलं नभ करेंते, कालागुरुकुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंतओ खुभिअचक्कवालं पउरजण - बालबुद्धपमुद्द अतुरिअपहाविअविउल' न्ति, आउलपदमारभ्य निर्गच्छति पदपर्यन्तं तु सूत्रे सांक्षादेवास्ति, अत्र व्याख्या| हृदय मालासहस्रैः - जनमनःसमूहैरभिनन्द्यमानः २- समृद्धिमुपनीयमानो २ जय जीव नन्देत्याद्याशीर्दानेन, मनोरथ| मालासहस्रैः - एतस्यैवाज्ञापरा भवाम इत्यादिजनविकल्पैर्विशेषेण स्पृश्यमानः २ इत्यर्थः वदनमालासहस्रैर्वचनमाला| सहस्त्रैर्वा अभिष्टृयमानं २ कान्त्यादिगुणैर्हेतुभिः प्रार्थ्यमानो २ भर्तृतया स्वामितया वा स्त्रीपुरुषजनैरभिलष्यमाणः २ | अंगुलिमालासहस्रैर्दर्यमानः २ दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अञ्जलिमालाः - संयुतकर मुद्राविशेषवृन्दानि प्रतीच्छन् २- गृह्णन् २, किमुक्तं भवति ? - त्रैलोक्यनाथेनापि प्रभुणा पौराणामस्माकमञ्जलिरूपा भक्तिर्मनस्यवतारितेति | दक्षिणहस्तदर्शनं तथा महाप्रमोदाय भवतीति कुर्वन्, मञ्जुमञ्जुना - अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन् २ - प्रश्नयन् २ प्रणमतां स्वरूपादिवार्ताः, भवनानां विनीतानगरीगृहाणां पङ्कया - समश्रेणिस्थित्या सहस्राणि न तु पुष्पावकीर्णस्थित्या, समतिक्रामन् २, तन्त्रीतलतालाः प्रसिद्धाः, त्रुटितानि - शेषवाद्यानि तेषां वादितं - वादनं प्राकृतत्वात्पदव्यत्ययः गीतं च तयो रवेण यद्वा तन्त्र्यादीनां त्रुटितान्तानां गीते - गीतमध्ये यद्वादितं - वादनं तेन यो रवः - शब्दस्तेन मधुरेण - मनोहरेण तथा जयशब्दस्य उद्घोषः - उद्घोषणं विशदः - स्पष्टतया प्रतिभासमानं यत्र तेन मञ्जुमञ्जुना घोषेण
For Private & Personal Use Only
www.jainelibrary.org