SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कान्तं स्वादकान्तं चेत्यत आह-कान्ताभिः' कमनीयशब्दाभिः 'प्रियाभिः प्रियार्थाभिः मनसा ज्ञायन्ते सुन्दरीतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः मनसा अम्यन्ते-गम्यन्ते पुनः पुनः या सुन्दरत्वातिशयात्ता मनोऽमाताभिः उदाराभिः-शब्दतोऽर्थतश्च 'कल्याणाभिः' कल्याणाप्तिसूचकाभिः 'शिवाभिः' निरुपद्रवाभिः शब्दार्थदूषणोज्झिताभिरित्यर्थः 'धन्याभिः' धनलम्भिकाभिः 'मङ्गल्याभिः' मङ्गले-अनर्थप्रतिघाते साध्वीभिः सश्रीकाभिःअनुप्रासाद्यलक्षारोपेतत्वात् सशोभाभिः 'हृदयगमनीयाभिः' अर्थप्राकव्यचातुरीसचिवत्वात् सुबोधाभिः, 'हृदयप्रल्हादनीयाभिः' हृदयगतकोपशोकादिग्रन्थिविद्रावणीभिः, उभयत्र कर्तर्यनट् प्रत्ययः, कर्णमनोनिवृतिकरीभिः अपुनरुक्ताभिरिति च स्पष्टं, अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः अथवा अर्थानां-इष्टकार्याणां शतानि याभ्यस्ता | अर्थशतास्ता एवार्थशतिकाः, स्वार्थ इकप्रत्ययः, अनवरतं-विश्रामाभावात् 'अभिनन्दयन्तश्च' जय जीवेत्यादिभणनतः समृद्धिमन्तं भगवन्तमाचक्षाणाः अभिष्टुवन्तश्च भगवन्तमेवेति, किमवादिषुरित्याह-'जय जयेति भक्तिसम्भ्रमे द्विर्व-18 चनं, नन्दति-समृद्धो भवतीति नन्दः तस्यामन्त्रणमिदं, इह च दीर्घत्वं प्राकृतत्वात् , अथवा जय त्वं जगन्नन्द !-18 जगत्समृद्धिकर? जय जय भद्र? प्राग्वत् , नवरं भद्रः-कल्याणवान् कल्याणकारी वा, कथमाशासते स्म इत्याह धर्मेण-करणभूतेन न त्वभिमानलज्जादिना अभीतो भवपरीसहोपसर्गेभ्यः, प्राकृतत्वात् पञ्चम्यर्थे षष्ठी, परीषहोप-18 18सर्गाणां जेता भवेत्यर्थः, तथा क्षान्त्या न त्वसामर्थ्यादिना क्षम-सोढा भव, 'भयं' आकस्मिक 'भैरव' सिंहादिसमुत्थं 30000000000 Jan Education For Private Personel Use Only Jw.tainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy